पृष्ठम्:वाग्व्यवहारादर्शः.djvu/२१४

पुटमेतत् सुपुष्टितम्
२१०
वाग्व्यवह्रादर्शः

 शक विभाषितो मर्षण इति दिवादिः सकर्मकः। मर्षणमिह प्रसहनम् । न वाक्यमात्रेण वयं हि शक्यः ( भा० बन० २६८।१२)। शक्याः प्रसह्याः, अभिभवनीयाः । न ह्युपायेन ते शक्याः पाण्डवाः कुरुवर्धन ( भा। आदि० २०। २।१ )। शक्या अभिभवनीयाः वशे कार्याः ।

 अर्पयतेरनुपसृष्टस्य सोपसर्गस्य वा व्यधनमर्थ इत्यत्र पुष्कलं प्रमाणान्तरम्-- इदं धनुर्लक्ष्यभिमे च बाणाः शृण्वन्तु मे नृपतयः समेताः । छिद्रेण यन्त्रस्य समर्पयध्वं शरैः शितैर्व्योमचरैर्दशार्धैः ( भा० आदिं० १८५|३५ )।

 गन्धशब्दो बह्वर्थः। अस्ति योल्पवचनः । धृतगन्धि भोजनम् । अस्ति यो गर्वे वर्तते । केनाप्तगन्धो माणवकः । अभिभूत इत्यर्थः । अस्ति यो बंन्धुत्वे सम्बन्धे वा वर्तते । सर्वाः सगन्धेषु विश्वसिति । मात्रेऽथैपि भाष्ये प्रयुक्त इति वेदनीयं सुधीभिः-यावान्व्याकरंणे पदगन्धोस्ति ( पा० २।१।१ ) । थावता चेदानीं पदगन्धोस्ति पदविधिरयं भवति (पा० ३।१।९२ ) ।

 ऋषेस्तस्योटजस्थस्य कालोऽगच्छन्निशानिशम् ( भा० शां० ११७|६ ) । निशानिशं बहुरात्रम् । एकशेषे कर्तव्ये द्वन्द्वः कृत इति व्यवहारः प्रधानम् । भारद्वाजश्रोतसूत्रे( ६|९|१ )ऽनुजावर इति पदं पितरि प्रेते योऽनुजातः पुत्रस्तत्रार्थे प्रयुक्तम् ।

 तिष्ठतेः प्रयोगेषूक्तपूर्वेष्विदमपि प्रयोगद्वितयमन्तःकरणीयम्– अपश्यतां प्रियान्पुत्रांस्तेषां शोको न तिष्ठति (भा० शां० १५३।२५ )। न तिष्ठति न विरमति । तिसृणां वसतीनां स्थानं परमदुष्करम् (भा० बन० २९६|५ )। भोजनत्रयनिरोध इत्यर्थः।

 यत्राद्यत्वे प्रायेण समयो मे नास्तीति व्यवहरन्ति तत्र व्यवहरविशारदाः पूर्वे क्षणो मे नास्तीति व्यवजह्रः । क्षणो हि निर्व्यापारस्थितिं वक्ति । प्रहा्लदस्वब्रवीद् विप्रं क्षणो नास्ति द्विजर्षभ । त्रैलोक्यराज्यसक्तस्य ततो नोपदिशामि ते (भा० शां० १२४|२९) ।

 अन्यत्पदं पादान्तरं भवति । अपदान्तरं त्वविलम्बितम् । भीमसेनमिदं वाक्यमपदान्तरमब्रवीत् ( भा० वन० ३४|४)।

 उचितमिति समवेतं युक्तम् अभ्यस्तमित्याह । स्वभावसिद्धमप्याह । तथा च श्रीरामायणे , प्रयोगः—-उचितं च महाबाहुर्न जहौ हर्षमात्मवान् (२|१९|३७ ) ।

 कञ्चिद् दोषेण गच्छतीत्यादौ गमिर्ज्ञानार्थ इति सप्रमाणमुक्तम्( पृ० १८३ )। तत्रेदम्प्रमाणान्तरं संगृह्यताम्--न दोषेणावगन्तव्या कैकयी भरत