पृष्ठम्:वाग्व्यवहारादर्शः.djvu/२४

पुटमेतत् सुपुष्टितम्
२०
वाग्व्यवहारादर्शः

प्रायेण । पावयतेः प्रयोगो यथा-प्रणवो ब्याहृतयः, सावित्री. चेत्येते पंच ब्रह्मयज्ञाः अहरहर्ब्राह्मणं किल्बिषात् पावयन्ति (बौ० ध० २।५।८।१४) । न पावयिष्यन्ति हि पापमापः (बुद्धचरिते ७।३०)। यथा त्वदीयैश्चरितैरनाविलैर्महीधरः पावित एष सान्वय इति कुमारे (५।३७) । वैतानास्त्वां वह्नयः पावयन्तु इति शाकुन्तले (४/७) । अपाङ्क्त्योपहता पङ्क्तिः पाव्यते यैर्द्विजोत्तमैरिति मनौ (३।१८३) ।

 ज्ञापयतेः खल्वपि-पञ्चैतान्यो महायज्ञान्न हापयति, शक्तित इति मनौ (३।७१) । नृयज्ञं पितृयज्ञं च यथाशक्ति न हापयेत् (४।२१) इति । ऋत्विग्यदि वृतो यज्ञे स्वकर्म परिहापयेत् (८।२०६॥) इति च । नमस्कारेण मन्त्रेण पञ्चयज्ञान्न हापयेदिति (याज्ञ १।१२१) । सर्वऋतवो विवाहे माधचैत्रौ मासौ परिहाप्योत्तरं च नैदाघम् इति वाराहगृह्ये (३।१३)। द्रुतमेतु न हापयिष्यते सदृशं तस्य विधातुमुत्तरमिति च माघे (१६।३३) ।

इत्यवसिता धातुविषया चिन्ता ।

कारकाणां विवक्षापारतन्त्र्यम्'

 यदुद्गिरन्ति प्रामाणिका विवक्षातः कारकाणि भवन्तीति तत्र विमृश्यते केयं विवक्षा नामेति यामनुरुन्धन्ति कारकाणि । वक्तुरिच्छा विवक्षेति चेद्यथा यस्मै रोचेत तथैव स प्रयुञ्जीतेति प्रसङ्गः । नेत्याह । लौकिकी हि विवक्षा प्रभवति न प्रायोक्त्रीति । लोकश्चात्र शिष्टलोक एवाभिप्रेतो वाचि प्रमाणभूतः सर्वस्यावधेयवचनः । अन्यथा सर्वमिदमाकुलं स्याद्वाङ्मयम् । सङ्कीर्येरन्प्रयोगा न व्यवतिष्ठेरन्निति महाननर्थ उपनतः स्यात् । इमां कारकविषयिणीं विवक्षामधिकृत्य किंञ्चिद्विन्यस्यामो विदुषां विनोदाय । बीजादङ्कुरो जायत इत्यत्र बीजं जायमानस्य प्रकृतिरिंत्यर्थपरिग्रहेण तस्यापादानतां विवक्षामः । बीजमङ्कुरो जायत इत्यत्र परिणामधर्मपुरस्कारेण भेदापोहेन प्रकृतित्वतिरस्कारेण च तस्यैव कर्तृतामिति सर्वत्र व्यवहारे बुद्धिरेव प्रभवति । यदाऽविवक्षितमेदं जननव्यापारमभिप्रेमस्तदा मातरपितरौ पुत्रं जनयतं इति मातुः पितुश्चोभयोरपि कर्तृत्वम् । यदा कः कथं जनयतीति भेदो विवक्ष्यते तदाऽयं पिताऽस्यां मातरि बीजमाधत्ते पतति वा बीजमस्मादस्यामिंति पितुः कर्तृत्वमपादानत्वं च । पतद्बीजधारणक्रियां कुर्वती माता त्वधिकरणमेंव । तथा च शिष्टप्रयोगाः प्रथन्ते--ब्राह्मणाद्वैश्यकन्यायामसम्बष्ठो नाम जायते (मनु० १०।८) । द्विजातयः सवर्णासु जनयन्त्यव्रतांस्तु यान् इति च (मनु० १०।२०) । सा भूधराणामधिपेन तस्यां समाधिमत्यामुदपादि भव्येति कुमारे (१।२२) । न ह्यस्यः विद्यते कर्म किञ्चिदामौञ्जिबन्धनात् । वृत्त्या