विपर्ययः सिद्धो भवत्यवाचनिकः । इयद्धि प्राभवत्यं विवक्षायां बुद्धिनिबन्धनायाः ।१ अधिशीङ्स्थासां कर्म (१।४।४६), अभिनिविशश्च १/४/४७) इत्यादिषु विवक्षां हेतूकृत्याधिकरणस्य कर्मसंज्ञाविधानं दृश्यते । विशतेस्तु निरुपसर्गस्योपसर्गान्तरसहचरितस्य च प्रयोग उभयी विवक्षा दृश्यते । मधुनि विशन्ति मधुकराः। ग्रामं प्रविशतीति । जटाधरः सञ्जुहुधीह पावकम् इत्यत्र किराते (१।४४) ऽप्यधिकरणे कर्मत्वोपचारः ।
कर्मणः करणभावश्चापि दृश्यते । अग्निष्टोमेन यजेत स्वर्गकामः । अग्निष्टोमाख्येन यागेन स्वर्ग भावयेदित्यर्थः । अग्निष्टोमः स्वर्गभावनायां करणं भवति । यद्यप्यसौ स्वर्गभावनां प्रति साध्यत्वेनेप्सिततमत्वादनुष्ठीयमानः कर्मत्वमनुभवति तथापि तस्य शक्तिभेदात्करणत्वं न विरुध्यते । यथा निपीयमानेन मधुना मत्त इत्यत्र कर्मत्वमनुभवतो मधुनः करणभावो भवति । अत्र व्यवहारे करणे यजः (३।२।८५) इति सूत्रं लिङ्गम् ।
क्वचिद् गृहीत इव केशेषु मृत्युना धर्ममाचरेतं, आलाने गृह्यते हस्ती वाजी वल्गासु गृह्यत इत्यादिषु करणेऽधिकरणत्वं विवक्षन्ति लौकिकाः । तत्र तेनेदमिति सरूपे (२।२।२७) इतिं तत्र शास्त्रीयं लिङ्गम् ।
कर्मणोऽपि कर्तृभावो दृष्टः । कर्मवत्कर्मणा तुल्यक्रियः (३।१।८७) इत्यत्र तत्प्रतिपत्तेः ।
क्वचित्कर्मणोऽधिकरणविवक्षा यथा-ऋषिप्रभावान्मयि नान्तकोऽपि प्रभुः प्रहर्तुं किमुतान्यहिंस्रा इति रघौ (२।६२) । आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसीति शाकुन्तले । यदां. चावयवि प्रहरतेः कर्म भवति तदाऽवयवोऽधिकरणमिति विवक्ष्यते । इन्द्रजिल्लक्ष्मणमुरसि प्रजहार । ग्रह्यादि-धातुप्रयोगेऽवयविनि कर्मणि निर्दिष्टेऽवयवेऽधिकरणत्वविवक्षा दृश्यते । तद्यथा- ततो दुर्योधनः कर्णमालम्ब्याग्रकरे नृपः (भा० आदि० १३६।२०)। जग्राह चरणे ग्राहः कुन्तीपुत्रं धनञ्जयम् इति च (भा० आदि० २१६।१०)। अवयविनि षष्ठीनिर्दिष्टे त्ववयवे ।
१. वेदाङ्गेषु क्वचित् शिक्षतिर्दानार्थकः श्रूयते । तत्प्रयोगेऽपि सम्प्रदाने द्वीितीयां पश्यामः कर्मणि च तृतीयाम्। स शन्तनुर्देवापिं शिशिक्ष राज्येनेति निरुक्ते (२।११)। संहितासुं प्रायशो यथाप्राप्तं सम्प्रदाने चतुर्थी विलोकयामः—इन्द्राय सुन्वद् ऋषये च शिक्षद् इति (ऋ० १०।२७।२२)। स मित्र मतों अस्तु प्रयस्वान् यस्त आदित्य शिक्षति व्रतेनेति च (ऋ० ३।५९।२) । मद्रं दात्रे यजमानाय शिक्षन् इत्यथर्वसंहितायाम् (९।४।१) । यजमानाय शिक्षसि सुन्वत इति च तत्रैव (२०।५५।२) ।