पृष्ठम्:वाग्व्यवहारादर्शः.djvu/३०

पुटमेतत् सुपुष्टितम्
२६
वाग्व्यवहारादर्शः

 अन्यत्रापि विवक्षानैयत्यं दृश्यते । गतिवचनानां धातूनां प्रयोगे यानस्य करणत्वमेव विवक्ष्यते न जातु चिदधिकरणत्वम् । रथेन यातीत्युच्यते न तु’ रथे यतीति । तथा च ऋग्वर्णः-हिरण्ययेन सविता रथेन । देवों याति भुवनानि पश्यन् ॥ (ऋ० १।३५।२) । यद्यपि रथोऽधिकरणशक्तिरिति नापह्नूयते । यानशब्दो हि करणसाधनः । अपरे यानपर्यायवाचिनोऽपि . करणतां न जहति । तथा चात्मनः पदं विमानेन विगाहमानः (१३।१॥) इति रघुकारस्य प्रयोगः । अष्टाध्याय्यां तत्र तत्र तल्लिङ्गोपलम्भ इमां प्रयोगपद्धतिं समर्थयते । वह्यं करणम् (३।१।१०२) । वहत्यनेनेति वह्यं वाहनम् । करणे यत्प्रत्ययान्तं निपात्यते । दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनंहः करणे (३।२।१८२) इत्यनेन च पत्लृधातोः करणे ष्ट्रणा पत्त्रमिति व्युत्पाद्यते । पतति गच्छत्यनेनेति पत्त्रं वाहनम् । यानमात्रस्य करणत्वमैकान्तिकमित्यत्र चरति (४।४।८) इति शास्त्रमपि द्रढीयो मानम् । हस्तिना चरति हास्तिकः । शकटेन चरति शाकटिकः । यो गत्यर्थधातूनधिकृत्योक्तो नियामस्तस्य वह्यादयो धाञादयश्च गुमनीया भवन्ति । किं च न केवलं मुख्यं यानमपि तूपचरितयानभावा अपि भावाः करणत्वेन व्यवह्रियन्ते न च व्यभिचारं सहन्ते । स्कन्धेन भारं वहतीत्यत्र स्कन्धे यानत्वाध्यारोपेण करणत्वमेवाभिप्रयन्ति न कदाचिदधिकरणत्वम् । तेन स्कन्धे भारं वहतीत्यपप्रयोगः । अत्रार्थे कवीनां प्रयोगा उपोद्बलकाः केचिन्निदर्श्यन्ते । वहेदमित्रं स्कन्धेन यावत्कालविपर्ययः (तमेव चागते काले भिन्द्याद् घंटमिवाम्भसि ॥ ) इति पञ्चतन्त्रे । शरत्तारागणतारं हारमुरसा दधानम् इति हर्षचरिते ( पृ० ११४) । प्रश्रयमिवानम्रेण मौलिना पाण्डुरमुष्णीषमुद्वहतेति च (पृ० ६२) । गामधास्यत्कथं नागो मृणालमृदुभिः फणैरिति कुमारे (६।६८॥) । सर्वपुष्पमयीं दिव्यां शिरसा धारयन् स्रजम् इति श्रीरामायणे (६।२२।१९) । अङ्केनादाय वैदेहीं पपात भुवि रावणः। ( ३।५१।१९ ।।) इति च । रत्नभूता च कन्येयं.....धृता गर्भण वै मयेति हरिवंशे (२।४१) । दघुः शिरोभिर्भूपाला देवाः पौरन्दरीमिवेति रघौ (.१७|७९ ) । धार्याण्यास्येन वैशद्यरुचिसौगन्ध्यमिच्छता । जातीकटुकपूगानां लवङ्गस्य फलानि च ॥ इति चरके( सूत्र ५।७६ ) । मध्येन सा वेदिविलग्नमध्या-वलित्रयं चारु बभार बालेति कुमारे (१।३९ ।।) । गुणानुरागेण शिरोभिरुह्यते नराधिपैर्माल्यमिवास्य शासनम् ( १।२१॥) इति किराते । योद्धारोऽबिभरुः शान्त्यै साक्षतं वारि मूर्धभिरिति भट्टौ (१७।५३ ) । तथेति शेषामिव भर्तुराज्ञामादाय मूर्ध्ना मदनः प्रतस्थ इति च कुमारे (३।२२॥) । वहति सलिलोद्रारमुच्चैर्विमानैर्मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् इति