पृष्ठम्:वाग्व्यवहारादर्शः.djvu/३१

पुटमेतत् सुपुष्टितम्
२७
धात्वर्थवशा कारकविभक्तिः

मेधे (१।६४) । अत्रोदाहरणेषु गतिर्वा प्रापणं वा नाथों येन करणस्यावकाशः स्यात् । धारणमेव तु सर्वत्राभिप्रेयते । तेनाधिकरणत्वं प्राप्नोति । करणं चेह नितान्तमसत् । अधिकरणं च परमार्थसत् । तथापि करणत्वमेव विवक्षन्ति शिष्टा इति न बह्वन्वाख्येयम् ।

 अन्यत्रापि विवक्षानियमो दृश्यते । रश्मिष्विवादाय नगेन्द्रसक्तां निवर्तयामास नृपस्य दृष्टिमिति रघौ ( २।२८) गृहीत इव केशेषु मृत्युना धर्ममाचरेत् इति हितोपदेशे, केशेषु जग्राह याज्ञसेनीं दुःशासनः, . शिरस्युपजिघ्रत्यम्बा डिम्भम् , कण्ठे गृह्णाति प्रियां कान्त इत्यत्र रश्मीनां केशशिरःकण्ठस्य चाधिकरणता लोके नियता । अन्यथा सम्भाव्य विभक्त्यन्तरं प्रयुञ्जानो जनोभ्रंशते व्यवहारवर्तन्या अक्षिगतश्च लोकस्य भवति । तेन यथात्र लोके समुदाचारो रक्षणीयः, श्रौती स्मार्तो वा व्यवस्थितिरास्थेया तथा वाङ्मयेऽपि लोकप्रतिष्ठितः शिष्टजुष्टो व्यवहारः सततं शीलनीयः साभिनिवेशं चानुसरणीयः ।

 धातूनामर्थान्तरसङ्क्रामादपि व्यतियन्ति कारकाणि। यथा सिञ्चतेः क्षरणेऽर्थे द्रवद्रव्यस्य कर्मत्वमार्द्रीकरणे च करणत्वम् । यथा मेघोऽमृतं सिञ्चति । सिचतीवामृतैर्वपुरिति । तथा किरतेर्वेिक्षेपेऽर्थे रजआदीनां कर्मत्वं व्याप्तौ तु करणत्वमवस्थितम् । यथा रजः किरति वातः । रजसाऽवकिरति वातो वाटिकाम् । एवं ददातिकर्मणा सम्बद्धस्य न सर्वत्र सम्प्रदानता । न हि ददातिः सर्वत्र परस्वत्वापाद पूर्वके द्रव्यत्यागे वर्तते । दीयन्तां पक्षद्वाराणि (विद्धशालभञ्जिकायाम्); कवाटं देहीत्यत्र च पिधानेऽपि दृश्यते । ते गृहेऽरग्निमददुः । घ्नतः पृष्ठं ददाति । पूर्वत्र वाक्ये गृहस्य सम्प्रदानत्वं न । ददातिरिह निक्षेपे वर्तते, तस्य चाधिकरणापेक्षा । अपरत्र हननं कुर्वतोऽपि तन्न । ददातिरत्र सन्निधापने वर्तते । तत्सम्बन्धापेक्षया घ्नत इति षष्ठी साध्वी । शकि शङ्कायामिति भ्वादिषु पठ्यते । शङ्का च भयम् । तेनाधर्माच्छङ्कते साधुरिंत्यपादानतऽधर्मस्य सिद्धा । स एवाङ्पूर्व उत्प्रेक्षायां वर्तते । तत्र कर्मत्वमेवेष्यते । यथा धर्मेऽप्यधर्ममाशङ्कते मूढः । सन्नन्तो गुपिर्निन्दायां पठ्यते । स .यदा निन्दापूर्विकायां निवृत्तौ विवक्ष्यते तदा पापाज्जुगुप्सत इत्यपादानता निर्बाधा । यदा तु केवलायां निन्दायां प्रयुक्तिस्तदा कर्मत्वमेवानवद्यं शिष्टजुष्टं प्रसिध्यति । यथा-यदा बुध्यति बोद्धव्यं लोकवृत्तं जुगुप्सते (भा० वन० २१२।८ ) । किं त्वं मामजुगुप्सिष्ठा इति भट्टौ (१५।१९ ) । जुगुप्सेरन्न चाप्येनमिति याज्ञवल्क्यस्मृतौ ( ३।२९६ ) i स्वर्गस्त्रीपूर्वनिर्माणं निजमेवा जुगुप्सतेति कथासरित्सागरे द्वितीये वेताले । जनापवादमात्रेण न जुगुप्सेत चात्मनीति काव्यमीमांसायां कविरहस्ये दशमेऽध्याये । अत्र निन्दाविषयविवक्षया कर्मत्वबाधेनात्मनीति वैषयिकी सप्तमी । यद्वा तद्वा भवतु । भार्गवस्तादृशानि तु