पृष्ठम्:वाग्व्यवहारादर्शः.djvu/३३

पुटमेतत् सुपुष्टितम्
२६
पद्यतेः प्रयोगे विभक्तिवैचित्र्यम्

गुरौ सर्वकर्मार्पणम् इति योगभाष्ये। अत्रेयं सप्तम्युपपत्तिः । यद्धि यं प्राप्यते द्रव्यं तत्तदन्तिकं प्राप्यते तत्सन्निकर्षे संनिधाप्यत इवेत्यर्थविवक्षायां सामीपिकेऽधिकरणे सप्तम्यपि साम्प्रेतम् । न्यासार्थविवक्षायां शुद्धेऽधिकरणेऽपि सा दृश्यते । काठिन्यं स्थाविरे काये भवता सर्वमर्पितम् इति कुमारे ( ६।७३) । ततो भीष्मः शरानष्टौ ध्वजे पार्थस्य वीर्यवान्। समार्पयत्...... ( भा० विराट ६६।६) ॥ क्वचिदन्यत्र तृतीयापि विलोक्यते । तेषामक्षीणि कर्णाश्व नासिकाश्चैव मायया । निमित्तवेधी स मुनिंरिषीकाभिः समार्पयत् ॥ इति भारते - ( उद्योग० ९६/३१ ) । अत्र : समार्पयदित्यस्य समगमयदित्यर्थग्रहादिषीकाभिरित्यत्र सहार्थे तृतीयोपन्नैवः । कश्चिदाह--समार्पयदित्यस्याविध्यदित्यर्थ इति । तन्न । समयोजयद् आच्छादयदिति वा शब्दमर्यादया लभ्योऽर्थः । अविध्यदिति त्वार्थिकोऽर्थः । आतश्चायमेव शब्दार्थः । भारद्वाजस्ततो भीमं षड्र्विंशत्या समार्पयत् । भूयश्चैनं महाबाहुः शरैः शीघ्रसवाकिरत् ॥ (भीष्म० ९४/१६) इत्यत्र पूर्वार्धगतस्य समार्पयच्छब्दस्योत्तरार्द्धगतेनावाकिरच्छब्देनानुवाददर्शनात् । इदमपरमत्र द्रढीयो मानम्--अलातचक्रवद्राजन् शरजालैः ससार्पयदिति भारते ( आश्व० ७७।३० )। अत्रालातचक्रोपमानेन कविधृतेन समर्पयतेराच्छादनमेवार्थं इति दृढं व्यवसितं भवति । अलातचक्रं नाम वेष्टयति न तु विध्यतीति सुविदितोऽर्थः ।

 विनाऽपि समं केवलस्याप्यर्पयतेः प्रयोगे सहार्थे तृतीया दृश्यते । तद्यथा-- स शरैरर्पितः क्रुद्धः सर्वगात्रेषु राघव इति (रा० ३।२८।१९ )। द्रुमाणां विविधैः पुष्पैः परिस्तोमैरिवार्पितम् इति च (रा० ४।१।८)। पुष्पैर्युक्तमित्यर्थः । भारतेऽपि नकुलं पञ्चभिर्बाणैर्बाह्वोरुरसि चार्पयत् इति ( कर्ण० ४८।३४ ) । कारकत्वाविवक्षायां तु षष्ठ्यपि दृश्यते--मातः मार्गलग्नं कस्य समर्पयामि गृहमयूरकम् इति श्रीहर्षचरिते (पृष्ठे १६४) ।

पद्यतेः प्रयोगे विभक्तिवैचित्र्यम्

 इदं चान्यदप्येतज्जातीयकं परीक्ष्यमाणं भूयसे विनोदाय भविष्यति’ विदाम् । पद गताविति धातोः प्रतिपूर्वस्य ण्यधिकस्य प्रयोगेऽपि विभक्तिवैचित्र्यं दृश्यत आकूतकरम् । हेतौ प्रतिपादयतेः प्रापणमर्थो मुख्यया वृत्येति गत्यर्थत्वादणि कर्तुः कर्मत्वे ब्राह्मणानिति वक्ष्यमाणपद्ये कर्मणि द्वितीया नापूर्वा । सर्वरत्नानेि राजा यथाहं प्रतिपादयेत् । ब्राह्नमणान्। वेदविदुषो यज्ञार्थं चैव दक्षिणाम्। इति ( मनौ० ११।४ )। अयशो जीवलोके च त्वयाऽहं प्रतिपादितः (रा० २I७४।६ )। अत्र क्तेनोक्ते कर्मणि प्रथमा । एतां मालां च तारां च कपि.