लक्ष्यते ततः सप्तमी स्यादिति । ईदृश एव शिष्टव्यवहारः । शिष्टाश्च वाचि प्रमाणमिति तदनुग्रहलाभाय तदविरोधेन सूत्राणि व्याख्येयानि ।
अयमर्थः। यस्य कर्तुः कर्मणो वा क्रिया क्रियान्तरस्य लक्षणं भवति स चेत्कर्ता कर्म वा क्रियान्तराश्रयात्कर्तुः कर्मणो वा भिद्येत, तत्रैव सप्तमी स्यात्, अभेदे तु मा भूदिति । तेन शयानेन देवदत्तेन भुज्यते इत्यत्र न भवति । अत्र यद्यपि शयनं लक्षणं भोजनं च लक्ष्यं, तथापि यः शयिता स एव भोक्तेति लक्ष्य लक्षकयोः क्रियाक्रियान्तरयोः कर्त्रभेद इति प्रकृतसूत्रस्याविषयः। हते दशास्ये विभीषणो लङ्काराज्येभिषिषिचे रामेणेन्यत्र कर्माश्रयया हननक्रियया विभीषणा भिषेचनक्रिया लक्ष्यते रामकर्तृकेति विषयोऽयं सूत्रस्य । अत एव ‘ततस्तैस्तथाऽ नुष्ठिते तं धनरहितमवलोक्यापरे चत्वारोऽपि मुक्ताः’ इति पञ्चतन्त्रे मित्रभेदपाठो न दुष्यति । क्रियाक्रियान्तरयोरनुष्ठानमोचनयोर्लक्ष्यलक्षकयोर्भिद्येते आश्रयभूते कर्मणी। कर्त्रभेदस्त्वकिञ्चित्करः । न हि कर्तृसम्बन्धिनोः क्रिया-क्रियान्तरयोरत्र लक्ष्यलक्षकभावोऽभिप्रेतः । एवं कस्यचित्प्राथमकल्पिकस्य रामे वनं प्रतिष्ठमाने स पितुः प्रतिज्ञानमेव मनस्यकरोन्नान्यत्किञ्चिद् इत्यत्र सप्तमीप्रयोगं सूत्राशय विदो न सहन्ते बलवच्च गर्हन्ते । धृतराष्ट्रस्य विदिते पाण्डवा वञ्चिताः परैः इत्यत्र भारतप्रयोगे धृतराष्ट्रस्येति षष्ठी कथमिति चेदुच्यते--अत्र विदितमिति भावे क्तान्तम् । वेदनं विदितम् । धृतराष्ट्रस्येति तत्सम्बन्धे शैषिकी षष्ठी । विदिते इत्यधिकरणे सप्तमी ज्ञेया न भावलक्षण इति सर्वमवदातम् ।
विभक्त्यन्तरचिन्ता
इयमपि द्वितीयाप्रयुक्तिश्चिन्त्यताम् । चतुर्दशीमष्टमीं वा रामं पश्यन्ति तापसा इति भारते । अथ कल्यमुत्थायेत्यादि च रामायणे । इहोभयत्राप्यत्यन्त संयोगोऽसन्नपि विवक्ष्यतेऽन्यथा द्वितीयानुपपत्तिः स्फुटैव । यद्यपि चतुर्दश्या अष्टम्याश्चैकदेशे तापसा रामं पश्यन्ति न तु सर्वरात्रम्, दर्शनं हि क्षणिकं भवति, तथापि रामदर्शन-समुत्सुकास्तापसाः सर्वो रात्रिं पश्यन्तीव रामम् । एवं ह्यासेचनकं पावनं च तदूपमिति विवक्षया तथा प्रयुङ्क्ते कविः। एवं दर्शनक्रियया रात्रेः कालस्याभिव्याप्तिर्व्याख्याता भवति । द्वितीयस्मिन्नपि प्रयोग उत्थानपूर्विकया चेष्टया व्याप्तिर्विवक्ष्यते सर्वस्य कल्यस्येति द्वितीया सुवचा । क्रियाश्वान्तर्णीत क्रियन्तरा अपि प्रयुज्यन्त इति धातूनां सकर्मकाकर्मकत्वप्रकरण इहैवोक्तमधस्तात् । एवं ततो द्वादश वर्षाणि प्रवेष्टव्यं वने पुनरिति भारतप्रयोगे प्रवेशनक्रियया तत्पूर्विका वासक्रियाऽभिधीयते । अन्यथा प्रवेशनस्य क्षणिकत्वात्कथनङ्कारं तेन