पृष्ठम्:वाग्व्यवहारादर्शः.djvu/४४

पुटमेतत् सुपुष्टितम्
४०
वाग्व्यवहारादर्शः

प्रकारान्तरसंभवः

 इतो व्यतिरिक्तमपि प्रकारान्तरं संभवति । इतः षड्भिर्मासैः पूर्वं भूरकम्पत । इतो वर्षसहस्रेण पूर्वं महमूदो भारतभुवमाचक्राम । इतः सप्ताहद्वयेन पूर्वं धारासारैरवर्षद् देव इति । अत्र वाक्येषु षड्भिर्मासैरित्यादिषु या तृतीया सा कम्पनादिक्रियायाः पूर्वतामवच्छिनत्ति । मासपूर्वः, वर्षपूर्व इत्यादयः समासाः पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैरिति शास्त्रेणाभ्यनुज्ञायन्ते । समासविधानाच्च लिङ्गान्मासेन पूर्व इति वाक्येपि पूर्वशब्दयोगे तृतीया साध्वीत्यास्थीयते । तेन मत्तो नवभिर्मासैः पूर्वो देवदत्त इति दोषलेशैरस्पृष्टं वचः । इदमत्र तत्त्वम् । पूर्वशब्देन योगेऽस्मच्छब्दात्पञ्चमी, तेनैव च योगे मासशब्दात्तृतीया । अवध्यर्थे पञ्चमी, अवच्छेदे तृतीयेति विभक्तिभेदः । यदि मासेन पूर्व इति निरस्तसमस्तदोषः प्रकारस्तर्हि षड्भिर्मासैः पूर्वं भूरकम्पतेत्यादि वाक्यं कथं दोषास्पदं स्यात् । अत्र पूर्वमिति कम्पनक्रियां विशिनष्टि मासैरिति च पूर्वतां क्रियाया अवच्छिनत्ति । नात्र दोषस्तोकं विभावयामः । अप्रहत एष वाचां पन्था इति न शिष्यान्परिग्राहयामः । सर्वथा निर्वद्योप्ययं प्रकारो न तावत् प्रमाणकोटिं निविशते यावन्न शिष्टप्रयोगैः समर्थनां लभते ।

इत्यवसितः कारकविचारः ।

 अयमपि शिष्टव्यवहारो विमृश्यताम् | तिङन्तेन समानप्रकृतिकं कर्म न प्रयुयुक्षन्ते प्रायेण यावन्न पदान्तरेण तद्विशेषयन्ति । अर्थपौनरुक्त्यात् । न हि शिष्टा वाचं ब्रवीति, शपथं शपते, भोजनं भुङ्क्ते, गीतं गायति, वर्षं वर्षति, संभारान् संबिभर्ति, फलानि फलतीत्यादि प्रयुञ्जते पुनरुक्तिदोषभयात्। सविशेषणत्वे तु रोचयन्ते प्रयोगम्--जीवत्वसुखजीविकाम् (भा० वन० ६३।१७ )। इयं राजर्षिभिर्याता पुण्यकृद्भिर्युधिष्ठिर । मन्वादिभिर्महाराज तीर्थयात्रां भयावहा ॥ (भा० वन० ९२।१०) । नादान्नदति चाद्भुतान् (१७८|२१) इति च । अन्धः स्यादन्धवेलायां बाधिर्यमपि चाश्रयेत् । कुर्यात् तृणमयं चापं शयीत मृगशायिकाम् ॥ ( भा० आदि० १४०।१२)। जहास स्वनवद् हासम् (भा० सभा० ४५।१७) । शुचिस्मितां वाचमवोचदच्युत इति माघे । शिवभक्तिरियं नो मनोरथदुर्लभानि फलानि फलतीति हर्षचरिते । वाङ्मयमधुवर्षमवर्षत् इत्यन्यत्र । पापान्संसृत्य संसारान् इति च (मनु० १२।७०) । अनित्यां वसतिं वसेत् इति वासिष्ठधर्मसूत्रे (१०।१२)। तस्माद्राज्ञा निधातव्यो ब्राह्मणेष्वक्षयो निधिरिति मनौ (७।८३॥)। अजिह्मामशठां शुद्धां जीवेद् ब्राह्मणजीविकाम् इति च (४।११ )। मधुरं गायति गीतमित्यन्यत्र । क्वचित्तु विशेषणविरहेपि तथा प्रयुञ्जते--कच्चित्ते