पृष्ठम्:वाग्व्यवहारादर्शः.djvu/४६

पुटमेतत् सुपुष्टितम्
४२
वाग्व्यवहारादर्शः

स्थूलोच्चयेनोच्यन्ते—समुद्रः स्थः कलशः सोमधानः ( ऋक् ६।६९।६ )। यदग्ने स्यामहं त्वं त्वं वा घा स्या अहम् । स्युष्टे सत्या इहाशिषः ॥ (ऋक् ८।४४।२३ ) । यत्र ब्रह्म च क्षत्रं च उभे भवत ओदनः (कठ उ० ) । आत्मेत्येवोपासीत । अत्र सर्व एकं भवन्ति ( बृहदारण्यके उ० १।४।७ )। ता यदा सहस्रं सम्पेदुः ( छा० उ० ४।४।५ )। सत्त्वं ज्ञानं तमोऽज्ञानं रागद्वेषौ रजः स्मृतम् ( मनु० १२।२५)। अत्र रजो रागद्वेषौ स्मृतम् इत्यत्रान्वये रागद्वेषाविति विधेयम् । स एते पञ्चपशवोऽभवत् ( श० ब्रा० ६।२।१।३ ) । अप्यर्थकामौ तस्यास्तां धर्म एव मनीषिणः ( रघौ १।२५ )। कन्या शिखण्डिनी जाता पुरुषो वै निवेदिता ( भा० उद्योग० १९१।२ ) । एषोऽस्मि कामन्दकी संवृत्तः ( मालती० ) । पुरुषो ह नारायणोऽकामयत । अहमेवेदं सर्वं स्यामिति ( श० ब्रा० १३।६।१।१॥ )। ते ह व्याघ्रो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशोः वा मशको वा यद् यद् भवन्ति तदाभवन्ति ( छां० उ० ६।९।२ ) । बालानां तु शिखा प्रोक्ता काकपक्षः शिखण्डक इति हलायुधः । भारः स्याद् विंशतिस्तुला इत्यमरः । विवेकपादपस्यैव भोगमोक्षौ फले स्मृतौ इति च योगवासिष्ठे ( २।११।५८ )। शब्दार्थौ मूर्तिराख्यातौ जीवितं व्यङ्ग्यवैभवमिति विद्यानाथः । अत्रोदाहृतीनामियत्तापरिच्छेदो नास्ति ।

 उद्देश्यस्य कर्तृकर्मत्वे परिगृह्य प्रचुरं पुरा प्रयुञ्जते प्रज्ञाः । विधेयस्य कर्तृकर्मत्वपरिग्रहस्त्वल्पः क्वाचित्कः । बाढं प्रयस्यद्भिरस्माभिः कियन्तिचिदेवोदाहरणानि पारितानि पर्येषितुम् । तानीहानुक्रामामो विमर्शाय विपश्चिताम् । यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानत इति शुक्लयजुषि (४०।७ )। ते समानीतमात्रे तु शकले भरतर्षभ । एकमूर्तिधरो वीरः कुमारः समपद्यत ॥ इति भारते ( सभा १७।४१ )। त्रीणि वर्षसहस्राणि त्रेतायुगमिहोच्यत इति, अन्नं प्रजापतिश्चोक्त इति, अश्वमेधो महायज्ञः प्रायश्चित्तमुदाहृतम् इति च भारते ( वन० १८८।२३।, २००।३८, शान्ति० ३३।३८ )। अक्षौहिण्यो दशैका च कौरवाणामभूद्बलम् ( उद्योग० १५५।२७ ) इति च । त्रिंशत्कला मुहूर्तः स्यात्, पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः । ते षोडश स्याद्धरणम्, प्राणायामा ब्राह्मणस्य त्रयोऽपि विधिवत्कृताः । व्याहृतिप्रणवैर्युक्ता विज्ञेयं परमं तपः ॥ श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः, ग्री कृष्णले समधृते विज्ञेयो रौप्यमाषकः । सप्त प्रकृतयो ह्येता सप्ताङ्गं राज्यमुच्यते इति भृगुप्रोक्तायां मनुसंहितायाम् (१।६४, ८।१३८, ८।१३६, ६।७०, २।१०१, ८।१३५, ९।२९४ )। इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यत इति गीतासु ( ३|४० )। आम्नाये स्मृतितन्त्रे च लोकाचारे च सूरिभिः । शरीरार्धं स्मृता नारी


३. असाकल्येन ।