पृष्ठम्:वाग्व्यवहारादर्शः.djvu/४९

पुटमेतत् सुपुष्टितम्
४५
उद्देश्यविधेयभावे लिङ्गविमर्शः

एकधा समभरंस्ताः सम्भृता एष देवो (रुद्रो) भवत् इति (३।३३ ) । स उद्गीथोऽङ्गारा भवन्तीति चच्छान्दोग्योपनिषदि ( २।१२।१) । यस्मिन्सर्वाणि भूतान्यात्मैवाभूद् विजानत इति यजुषि तु तात्त्विकस्य विकारस्याभावेऽपि विकारविवक्षायामात्मनो विधेयस्य कर्तृत्वे व्याख्येयम् । परमयमप्युत्सर्गो नाऽनास्कन्नोऽपवादेन । स (प्रजापतिः) एते पञ्च पशवोऽभवदिति शतपथे (६।२।१।३), अत्र सर्व एकं भवन्तीत्यत्रोपनिषत्प्रयोगे चोद्देश्यस्य कर्तृत्वदर्शनात् । तेनान्तर्वाणयो निब्रु वन्तु किमत्र कामचार एवाभ्यनुज्ञात आहोस्विद् व्यवस्थितिरपि काचिदस्तीति ।

 विधेयस्येतिना परिच्छेदे तस्यैव कर्तृत्वकर्मत्वे व्यवस्थिते इत्यपि न शक्यं मुक्तसंशयं वक्तुम् । कालादिकृता वस्तुधर्मा वयःप्रभृतयोऽवस्थेत्युच्यत इति ककुदस्यावस्थायां लोप इति सूत्रे काशिकायां विधेयस्य कर्मत्वमस्तीति नापह्नूयते । योगभाष्ये तूभयथा दृश्यते । तद्यथा—-सर्वभूमिषु सर्वविषयेषु सर्वथैवाविदितव्यभिचाराः सार्वभौमा महाव्रतमित्युच्यन्ते (२।३१)। एकविषयाणि त्रीणि साधनानि संयम इत्युच्यत इति च तत्रैव (३।४) । तत्र लम्बाम्बरः कल्पतरव एव वैजयन्तीति संभाव्यत इति कुमारे (६।४१) मल्लिनाथः ।

उद्देश्यविधेयभावे लिङ्गविमर्शः

 इदमिह प्रसङ्गाद् विमृश्यते-- यत्र वाक्य उद्देश्यविधेययोरेकत्वमापादयन्ती द्वे सर्वनामनी प्रयुज्येते तत्र किं कस्य लिङ्गमुपादत्त इति । अत्राह तत्रभवान् कैयटः--उद्दिश्यमानप्रतिनिर्दिश्यमानयोरेकत्वमापादयन्ति सर्वनामानि पर्यायेण तल्लिङ्गमुपाददत इति । क्षीरस्वामी खल्वपि स्माह--सर्वनाम्नामुद्दिश्यमानविधीयमानयोर्लिङ्गग्रहणे कामचार इति (अमरोद्घाटने)। यदि यच्छब्द उद्देश्यलिङ्गं गृह्णाति तदा तच्छब्द उद्देश्यलिङ्गमेव गृह्णीयाद् विधेयलिङ्गं वेति कामचारः । तथापि विधेयलिङ्गानुसरणं प्रायिकं पश्यामः । मायेत्सा ते यानियुद्धान्याहुरित्यृग्वर्णः (ऋ०१०।५४।२)। अधर्मः क्षत्रियस्यैषयद्व्याधिमरणं गृहे(भा० भीष्म०१७।११)। मातुस्तु यौतकं यत् स्यात् कुमारीभाग एव सः (मनु० ९।१३१)। शैत्यं हि यत्सा प्रकृतिर्जलस्येति कालिदासः । तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जन इति भवभूतिः । छिद्राण्येतानि विप्राणां येऽनध्यायाः प्रकीर्तिताः ( )। यान्यासामन्तरालानि विदिशः प्रदिशश्च ता इत्यमरमालायाम् । यदेते धनमित्याहुः


१. कश्चिदाह--विशेष्यवाचकपदसमानवचनकत्वमाख्यातस्येति तेन वृक्षः पञ्चनौका भवतीत्यादौ प्रकृतिविकृतिस्थलेऽथ एको द्वौ जायते इत्यादावुभयार्थाभेदारोपस्थले चाख्यातस्यैकवचनतोपपन्ना भवति ।