प्राणाः ह्येते बहिश्चराः । तक्रेण पक्वं यत्क्षीरं सा भवेत् तक्रकूर्चिका । इह बहु शक्यमुदाहर्तुम् । परं क्वचित्तच्छब्द उद्देश्यलिङ्गमपि ह्रांति । तद्यथा- शरीरसाधनपेक्षे नित्यं यत्कर्म तद्यम इत्यमरः। स वीराशंसनं युद्धभूमिर्याति- भयप्रदेति च सः। यदधमर्णेनोत्तमर्णाय मूलधनातिरिक्तं देयं तद् वृद्धिरिति काशिकायाम् (५।१।४७ )। यदसंदिग्धमप्रयोजनं च न तप्रेक्षावत्प्रपित्सागोचर इति साङ्ख्यतत्वकौमुद्यां वाचस्पतिमिश्रः । यदावेदयते राज्ञे तद् भाष्येत्यभिधीयत इति मिताक्षरा । तदनन्तरं गवयो गवयपदवाच्य इति ज्ञानं यज्जायते तदुपमि तिरिति न्यायमुक्तावल्यां विश्वनाथः। प्रणामादिभिराशिषं वच्यसनो गुर्वादिर्य त्प्रतिसंभाषते तत्प्रत्यभिवाद इति लघुशब्देन्दुशेखरे स्वरसन्धौ नागेशः । क्वचिच्च यच्छब्दोऽपि विधेयलिङ्गमनुसरति । तद्यथा -श्लेष्म वा एतद्यज्ञस्य यद्दक्षिणा ( ताण्ड्य ब्रा। १६।१।१३ ) । मुखं व एतत्संवत्सरस्य यत्फाल्गुनी पौर्णमासी (शाङ्कायन ब्रा०५।१) । क्वचिद्यच्छब्दो नपुंसकं प्रयुज्यतेऽनपेक्ष्य विधेयलिङ्गम् । तद्यथां सैषाऽनस्तमिता देवता यद्वायुः (बृ० उ० १।५।२२) इहोद्देश्यलिङ्ग स्यापि नानुसारः । क्वचित्तु यच्छब्दोऽपिं विधेयलिङ्गमनुविधत्ते वचनं च । तद्यथा प्रकाशमेतत्तास्कर्यं अदेवनसमाह्वयौ ( मनु० ९।२२२ )। इति कामचारः सुष्ठूपदर्शितो भवतीति विरम्यते ।
विशेषणविशेष्यभावः
उक्त उद्देश्याविधेयभावः । विशेषणविशेष्यभावः सम्प्रत्युपक्रम्यते । भेदकं विशेषणं भेद्यं विशेष्यमिति सामान्येन तयोर्लक्षणम् । यदनेकप्रकारवद्वस्तु प्रकारान्तरेभ्यो व्यवच्छिद्यैकत्र प्रकारे व्यवस्थाप्यते तद् भेद्यम् । सर्वार्थः स्वरूपेण सामान्यतो ज्ञातोऽपि स्वगतेन विशेषेण पुनरनिर्ज्ञातो भवति । तस्य च येन निर्ज्ञातस्वरूपेण गुणवचनादिना योगो भवति स्वस्य रूपस्य परिच्छेदाय तद्भेदकं विशेषणम् । तच्च परार्थमिति गौणं भवति । तथा चोक्तं वाक्यपदीये
विशेष्यं स्यादनिर्ज्ञातं निर्ज्ञातोऽर्थो विशेषणम् ।
परार्थत्वेन शेषत्वं सर्वेषामुपकांरिणाम् ॥ (३।१४।७ ) इति ।
क्वचिद् विशेषणविशेष्ययोः कामचारः । यत्रोभावपि गुणशब्दौ वा क्रियाशब्दौ वा, गुणक्रियाशब्दौ वा तत्रैकतरं विशेषणं भवतीतरच्च विशेष्यम् । तथा च पर्यायेणोपसर्जनभावः । तद्यथा खञ्जकुब्जः । कुब्जखञ्जः । पाचकपांठकः । पाठक पाचकः । खञ्जपाचकः । पाचकखञ्ज इत्यादि ।
विशेषणमप्रधानमित्युक्तम् । द्वयोरप्रधानयोः प्रधानापेक्षावतोर्नास्ति परस्परो पकारित्वमिति परस्परमनभिसम्बन्धः । उक्तं हि भाष्ये -न ह्युपाधेरुपाधिर्भवति