न वा विशेषणस्य विशेषणम् ( १।३।२) इति । यदि तयोरपि गुणप्रधानभावः स्यात् तदा विशेषणत्वं न स्यात् । तयोर्विशेष्ये द्रव्य एवैकस्मिन्नन्वयो न परस्परम् । तेनास्मद्गुरुचरणा महान्तो विद्वांस सन्तीत्त्यत्र महत्वेन विद्वत्त्वं न शक्यते विशेषयितुम् । महान्त इति च विद्वांस इति चोभयं गुरुचरणानामेव विशेषणम्। इष्यते च महत्त्वं विद्वत्वं विशिंष्यादिति । तेन नेदं विवक्षितमर्थमर्प यतीति दुष्टो न्यासः । एवं च एते एतावन्तः साधवो यद् द्विषत्यपि दयां कुर्वन्ती- त्यपि विवक्षितार्थासमर्पणादपप्रयोगः । तेनास्मद्गुरुचरणा महद्विद्वांसः इति वक्तव्यम् । तत्र समासे व्यासे वा न कश्चिद् भेदः। उभयथा महदिति क्रिया विशेषणम् । सुप्सुपेति समासः । महद्यथा स्यात्तथेति विग्रहः । विस्पष्टपदुरितिवत् । स्थितस्य गतिश्चिन्तनीयेति चेत् । विद्वांस इति भावप्रधानो निर्देश इति कल्प्यताम् । स च महत्त्वेन विशेष्यताम् । महद् विद्वत्त्वमेषामिति महाविद्वांसः । यथा विशारद इत्यत्र शारद इति भावप्रधानो निर्देशः । विनष्टं शारदत्वम प्रतिभत्वमप्रौढत्वं वास्येति विशारद इति व्युत्पादयन्ति । परं च वाक्यमित्थं विपरिणमनीयम्-एते तथा साधवो यथा द्विषत्यपि दयां कुर्वन्तीति ।
शतृशानचोः प्रयोगविषयःः
परिणता विशेषणविशेष्यभावचिन्ता । इदानीं शतृशानचोः प्रयोगविषयं चिन्तयामः । 'लटः शतृशानचावप्रथमासमानाधिकरणे ( ३।२।१२४) इति शास्त्रमप्रथमान्तेन सामानाधिकरण्ये सति शतृशानचौ लडादेशौ शास्ति । व्यव स्थित विभाषा चेयमिति वृत्तिकारादयः । तेन क्वचित् प्रथमासामानाधिंकरण्ये- प्यादेशौ दृश्येते इति सन् ब्राह्मणः, विद्यमानो ब्राह्मणः, अधीयानो ब्राह्मण इति भवति । पक्षेऽस्ति ब्राह्मणः, विद्यते ब्राह्मणः अधीते ब्राह्मण इति च । प्रथमान्तेन सामानाधिकरण्ये शतृशानचौ यन्नेच्छति सूत्रकारस्तत्रायमस्याभिप्रायो लक्ष्यते-लडादेशौ शतृशानचौ कृतौ । तेन कृत्तद्धितसमासाश्चेति शत्रन्तं शान जन्तं वा शब्दस्वरूपं प्रातिपदिकं भवतीति शब्दशक्तिस्वाभाव्याद् विशेषणं भूत्वा वर्तमानकालिकगत्यादिक्रियायाः कर्तारं कर्म वा यथाविवक्षमाह । न तु तिङन्तवद् देवदत्तादिकर्तृकवर्तमानकालिकगत्यादिक्रियामिति विधेयत्वेन तस्य प्रयोगोऽनुपपन्न इति । अनुपपन्नत्वेपि क्वचिद्भ्यनुज्ञायते व्याकरणस्यान्वाख्यान- स्मृतित्वात् इति व्यवस्थितविभाषामाश्रयतां व्याख्यातॄणामाशयः । तथा च क्वाचिकाः प्रयोगाः श्रुतिस्मृत्योः - मैत्रेयीति होवाच याज्ञवल्क्य उद्यास्यन्वा अरेऽहमस्मात्स्थानादस्मि इति (वृ० उ० २|४|१ )। स यदोत्क्रमिष्यन् भवति
२. कृत्प्रत्ययौ ।