पृष्ठम्:वाग्व्यवहारादर्शः.djvu/५८

पुटमेतत् सुपुष्टितम्
५४
वाग्व्यवहारदर्शः

भावश्चेत्युभयथापि स्वशब्द उपसर्जनम् । भाव एव च प्रधानम् । एवं योऽभि वादितविप्रस्तु नाशिषं सम्प्रयच्छतीति मनुवाक्ये (; ) ऽभिवादितेन विधेयेन सह समासेऽनिष्टो गुणप्रधानभावः फलति । विधेयं, प्रधानं भवति विशेषणं तु गौणम्- तेन यस्तु विप्रोऽभिवादितः सन्नित्यादि व्यासेन वक्तव्यम् । अन्यत्रापि परिहार्योऽस्थाने समासो दृश्यते । तद्यथा—सर्वं परिक्षेप्यतपश्च मत्वेति बुद्ध- चरिते (७|३४) । तथापि तृष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिरिति हितोपदेशे । पूर्वत्र तपः परिक्षेप्य मत्वेति व्यस्तं वचः शोभनं स्यात् । परि क्षेप्यमिति विधेयं समासे विशेषणतां यातीति गुणी भवति । उत्तरत्रापि स एव दोषः । विनाशकाले बुद्धिर्विपरीतो भवतीति विवक्षितम् । न तु वैपरीत्यवि शिष्टबुद्धिः कश्चित्पूर्वप्रकृत इहास्ति ।

 इदं चात्र समासवृत्तिमधिकृत्य विशिष्टमवधारणीयम् । यद्यपि मत्वर्थे बहुव्रीहि विधिरित्यभ्युपगमस्तथापि यो यावाश्चार्थो मत्वर्थीयैस्तद्धितैराख्यायते नासौ बहुव्री हिणेति वेदनीयम् । आतपवन्ति शिखराणि हिमवत इत्युक्ते योर्थः प्रतीयते यावान्वा नासौ तावन्वा सातपानि शिखराणीत्युक्तेः। भूमनिन्दाप्रशंसासु नित्ययोगे इति वचनात्पूर्वत्र नित्य आतपयोगोपीङ्गितो भवति । अपरत्र कादाचित्कताऽऽतपस्य स्यान्नित्यता वेति नियतं नास्ति । अतएव रवत्प्रतिषेधाच्चेति वार्तिके नित्ययोग प्रतिपादनाय बहुव्रीहिर्न कृतो गुरोरंरस्येतीति कैयटः। तथा चैकादश्याः सांख्यकारि काया व्याख्यायां श्री वाचस्पतिमिश्रः प्रसवधर्मि-प्रसवधर्मो यः सोऽस्यास्तीति प्रसवधर्मि । प्रसव्धमेति वक्तव्ये मत्वर्थीयः प्रसवधर्मस्य नित्ययोगमाख्यातु- मित्याहुः। एवं सधनो वणिक् इत्युक्ते बहुधनो वाभिप्रेतः स्यादल्पधनो वेति व्यवसितिर्नास्ति । धनवान् इत्युक्ते तु बहुधन एव गम्यते नैयत्येन । नित्योदकी नित्ययज्ञोपवीतीत्यत्रोदकेन यज्ञोपवीतेन च नित्यं संसर्गवान् अभिधीयते । नित्योदकःनित्ययज्ञोपवीतं इति बहुव्रीहिणां तु केवलं सत्ताभिधीयते न तु संसर्गः । क्वचिद्रूढिवशान्मत्वर्थीयान्तस्य बहुव्रीहेश्चार्थान्तरं भवति । नार्थवान् इति परतन्त्रो भवति, सनाथ इति सुशोभितः । अयं चात्र नञ्समासे विशेषो बोध्यः । ‘नञ् ( २|२|६) इति हि सामान्येन नञ्समासविधिः । उदाहरति च वृत्तिकारः - न ब्राह्मणोऽब्राह्मणः ।


१. अभिवादितस्तु यो विप्रो नाशिषं संप्रयच्छति ।
   श्मशाने जायते वृक्षो गृध्रकङ्कोपसेवितः ॥
   इत्येष पाठस्तु क्वावाचिको निर्दुष्टः एकाक्षराधिक्यं तु भवति प्रथमे चरणे i
२. एतज्जातीयकमन्यदर्थं दिदृक्षुभिरस्मत्कृतेः प्रस्तावतरङ्गिण्या उपोद्घातों द्रष्टव्यः ।