पृष्ठम्:वाग्व्यवहारादर्शः.djvu/५९

पुटमेतत् सुपुष्टितम्
५५
समसस्येष्टत्वानिष्टत्वे

न वृषलोऽवृषल इति । अत्र ब्राह्मणभिन्नस्तत्सदृशः क्षत्रियादिर्गृह्यते । अब्राह्मण- मानयेत्युक्त नहि लोष्टमानीयं कृती भवति । सामान्येन प्रतिषेधवचनोऽपि नञ् क्वचित् पर्युदासमाह क्वचिच्च प्रसज्यप्रतिषेधम् । यत्र पदार्थान्तरस्य प्रतिषिध्य मानस्य प्रधानत्वं विधेयतया मुख्यत्वं प्रतिषेधस्य नञर्थस्याप्रधानता उद्देश्यता- वच्छेदकतयाऽमुख्यत्वं स पर्युदासः । तत्र पर्युदासे नञ् समस्यते । तथैव चोदाहृतम् । यत्र तु पदार्थान्तरस्योद्देश्यतयाऽप्राधान्यं नञर्थस्य च विधेयतया प्राधान्यं स प्रसज्यप्रतिषेधः । तत्र नञर्थस्य क्रियायामन्वयः । तत्र समासो नेष्यते । उत्तरपदार्थप्रधानस्तपुरुष इति समासेऽभावोऽप्रधानं स्यात् । क्वचित्तु प्रसज्य प्रतिषेधेऽपि-समासो भवत्येवेत्यत्र आदेच उपदेशेऽशितीति निर्देशो ज्ञापकः। शिति तु नेत्यर्थः । तथा च कविप्रयोगा:-अरत्नालोकसंहार्यमवार्यं सूर्यरश्मिभिः । दृष्टिरोधकरं यूनां यौवनप्रभवं तमः ॥ ( काव्यादशे २|१९७ )। रंत्नालोकेन संहार्ये नेति विधेयम् , सूर्यरश्मिभिर्वार्ये , नेति च । उभयत्र क्रियया' नञः सम्बन्धः । एवं कादम्बर्यामपि निसर्गत एवाभानुभेद्यमरनालोकोच्छेद्यमप्रदीप प्रभापनेयमतिगहनं तमो यौवनप्रभवम्। अशिशिरोपचारहार्योऽतितीव्रो दर्पदाह ज्वरोष्मा । सततममूलमन्त्रगम्यो विषमो विषयविषास्वादमोहः, नित्यमस्नान शौचवध्यो रागमलावलेप इति । अकिञ्चिदपि कुर्वाणः सौख्यैर्दुःखान्यपोहतीत्युत्तरे रामचरिते । किंचिद् अपि न कुर्वाण इति क्रियया .नञः सम्बन्धः विधेयांशश्चायमिति स्पष्टः प्रसज्यप्रतिषेधः । तथापि नञ्समासः ।

 क्वचित्समासेनैवार्थोऽभिधेयो न व्यासेन । यदा विषधरजातिविशेषो विवक्ष्यते तदा कृष्णसर्प इति समासोक्तिराश्रीयतेः न तु कृष्णः सर्प इति व्या सोक्तिः । एवं हरीतक्यामलकं विभीतकमिति त्रितयं समुदितं 'त्रिफला' इत्येक पदेनाभिधीयते न तु त्रीणि फलानीति वाक्यघटकेन पदद्वयेन । तथा शुण्ठी पिप्पलीमरिचानां समुदायः त्रिकटु’ इत्युच्यते न तु त्रीणि.कटूनीति । अमृतसर समित्युच्यते समासेन नगरनामधेयं न त्वमृतस्य सर इति वाक्येन । वाक्यार्थः क्रियेति वाक्येन संज्ञाया अनवगमात् । एवं चतुश्शालमिति..योऽर्थ उच्यते नासौ चतस्रः शाला इति वाक्येन । चतुः शालमिति चतसृषु दिक्ष्वेकत्रावस्थि तानां शालानां संनिवेशविशेष उच्यते ।

 केचिच्छब्दा अर्थविशेषे वर्तमानाः समासेन्तर्भूता एव प्रयुज्यन्ते । आह च स्युरुत्तरपदे त्वमी। निभसंकाशनीकाशप्रतीकाशोपमादय इति ( अमर० शूद्रवर्गे)। सदृशवचना निभादयोऽत्र गृह्यन्ते । तेन ताराधिपनिभानना (सीता ); आकाशनीकाशं ,काशसंकाशम् इत्यादेः स्थाने ताराधिपेन निभमाननं यस्याः,