पृष्ठम्:वाग्व्यवहारादर्शः.djvu/६

पुटमेतत् सुपुष्टितम्
वाग्व्यवहारादर्शः

इति शास्त्रं शरच्छब्दाच्छ्राद्धेऽभिधेये ठञं विधत्ते । तेन शारदिकशब्दश्च निष्पद्यते । श्राद्धशब्देन चोभयमुच्यते श्रद्धावत्कर्म श्रद्धावान्पुरुषश्चइह तु श्रद्धावान् पुरुषो न गृह्यते । तत्कस्मात् । अनभिधानात् । किमिदमनभिधानं नाम । शिष्टैरप्रयुक्तत्वम् । न हि शिष्टाः श्राद्धे पुरुषे विषये शारदिकशब्दं प्रयुञ्जते । महाभागास्ते सामान्येन विहितमपि ठञं तत्रार्थे नेच्छन्ति । तेन दीव्यति खनति जयति जितम् (४।४।२) । अत्र जितमित्यर्थे सामान्येन ठग्विहितः, देवदत्तेन जितमित्यत्र न भवति, अनभिधानात्। एवमङ्गुल्या खनतीत्यत्रापि न, अनभिधानादेव । तस्येदम् (४।३।१२०) इति सामान्येनाणादयो घादयश्च विधीयन्ते । अण्युपगोरिदमौपगवम् । परं देवदत्तस्यानन्तरमित्यत्र न भवत्यण्, अनभिधानात् । समानकर्तृकेषु तुमुन् (३।३।१५८) इत्यनेनेच्छार्थेषु धातुषूपपदेषु धातुमात्रात्तुमुन्विहितः । इह कस्मान्न भवति इच्छन्करोति । अनभिधानादेव । सततशब्दाद् भावकर्मणोः ष्यञ् भवति, सन्ततात्तु नेति, कस्मात् । अनभिधानादेव । इत्यलं निदर्शनाय शिष्टप्रयोगाः प्रधानमुपसर्जनं व्याकरणमित्यस्यार्थस्य । अयमत्र सारः । शिष्टैः प्रयुक्तपूर्वा एव शब्दाः शास्त्रेण संस्क्रियन्तेऽनुशिष्यन्तेऽन्वाख्यायन्ते वा । तस्माद् व्याकरणमन्वाख्यानस्मृतिरिति संविज्ञायते । तत्रापि नेदं युज्यते वक्तुं तावन्त एव शब्दाः सन्ति यावन्तश्शास्त्रेण परिगृहीता इति । अनन्वाख्याता अपि भूरय इति तेषां साधुत्वेऽपि शिष्टा एव मानम् ।

 शिष्टा एव सर्वत्र वाग्व्यवहारे प्रमाणमिति यदुक्तमधस्तात्तत् सम्प्रति प्रसिषाधयिषामः । इदं तावद् व्यवस्थितं यां वाग्वर्तनीमनुवर्तन्ते शिष्टास्तामेवानुविवृत्सति लोकः । का नाम निरवद्या वाक्यप्रणीतिरिति शिष्टपद्धतेरेव शक्यमञ्जसा विज्ञातुम् । तत्र हि त एव प्रमाणं नेतरे । तन्मुखप्रेक्षी लोको यथाजातीयकं वाग्विन्यासं ते प्रयुञ्जते तथाजातीयकमेव स प्रमाणीकुरुते । यया विधया ते तं तमर्थं सन्दृभन्ति तामेवानुकरोति लोकः । व्याकरणे च पदान्येव संस्क्रियन्ते न वाक्यानि, तेन न तदायत्तो वाक्यसाधुत्वप्रत्ययः । वाक्यं च न केवलं साध्विष्यते साधीयश्च, साधिष्ठमपि चेष्यते । इदं च तारतम्यं शिष्टप्रयोगतोऽवसातव्यं भवति नान्यतः । अनलङ्कर्मीणं तत्र व्याकरणम् । नैतदेव । एवं नाम व्यवस्थितो वाग्व्यवहारो यत्तत्रादृतो जनः शास्त्रमपि नाद्रियते । तदेतद्भगवन्तो भाष्यकारा इत्थङ्कारं निदर्शयन्ति--देवश्चेद् वृष्टो निष्पन्नाः शालयः । तत्र भवितव्यं सम्पत्स्यन्ते शालय इति । सिद्धमेतत् । कथम् । भविष्यत्प्रतिषेधात् । यल्लोको भविष्यद्वाचिनः शब्दस्य प्रयोगं न मृष्यति । कश्चिदाह देवश्चेद्वृष्टः सम्पत्स्यन्ते