आकाशेन नीकाशम् ,काशेन संकामित्यादि नः शक्यते वक्तुम् । उत्तरपदे ऽमी इत्याह । उत्तरपदम् इति च समासचरमावयवे रूढम् । तेन वाक्ये निभादीनां सुदृशवचनानामप्रयोग इति स्थितम् ।
कार्त्स्न्येSवधारणे च वर्तमानो मात्रशब्दो नित्यं समासचरमावयव इति प्रयुज्यते न तु वाक्ये स्वातन्त्र्येण । तद्यथा - नहि रोगमात्रस्यैका चिकित्सा भवति । सर्वस्य रोगस्येत्यर्थः । नहि ज्ञातमात्रो धर्मोऽभ्युदयाय भवति । ज्ञातमात्रः = केवलं ज्ञातः ।
समासगताः केचिच्छब्दा अपूर्वार्थवाचका भवन्ति , । तद्यथा संख्याशब्दानां वृतिविषये पूरणार्थत्वं दृश्यते । त्रिभागशेषासु निशासु च क्षणं निमील्य नेत्रे सहसा व्यबुध्यतेति कुमारे (५/५० )। त्रिभागस्तृतीयो भागः शेषो यासां तासु । आददीताय षड्भागं प्रनष्टाधिगतान्नृपः । इति मनौ (८/३३)। एवं शतांशः, सहस्रांश ईत्यादिषु बोध्यम् । शततमोंशः, सहस्रतमोंश इत्यर्थात् । संख्याशब्दानां वृत्तिविषयेवीप्सार्थत्वमपि लक्ष्यते । तद्यथा-सप्तपर्णः । सप्तच्छदः । सप्त सप्त पर्णानि वृन्तेऽस्येति विग्रहात् । मात्रशब्दो वृत्तौ तुल्यप्रमाणेऽपि वर्तते तद्यथा भिक्षामात्रं न ददाति याचितः। भिक्षयास्तुल्यप्रमाणमित्यर्थः। क्वचिच्च समासो नैवेष्यते ।. महत्कष्टं श्रितं इत्येव भवति न तु महत्कष्ट श्रित इति । उक्तं हि सविशेषणानां वृत्तिर्न वृत्तस्य वा विशेषणं नेति तेन ऋद्धस्य राज्ञः पुरुष इति भवति न च ऋद्धस्य राजपुरुष इति। भारतस्य प्रतिकोणं श्रीसुभाषस्य यशो गीयत इत्यत्र वाक्ये प्रतिकोणमिति दुर्घटः समासः । पूर्वपदार्थ- प्रधानोऽव्ययीभाव इत्यव्ययार्थः प्रधानम् । स चेह वीप्सा । तस्यासत्त्वभूतस्यः भारतस्येति षष्ठयन्तं विशेषणं न युज्यते । कोणशब्दश्च भारतमपेक्षत इति सापेक्षः । सापेक्षमसमर्थः भवतीति भारतस्य कोणे कोणे इति व्यासेनैव वक्तव्यम्। नष्टस्य शिशोरन्वेषणार्थं सम्प्रस्थिता रक्षिणः इत्यत्र वाक्येऽन्वेषणमिति नष्टस्य शिशोरिति पदे अपेक्षते तेनासमर्थम् । असमर्थस्य च तस्यार्थशब्देन समासोऽनुपपन्नः। तस्मान्नष्टस्य शिशोरन्वेषणायेति वक्तव्यम् । विशेषणं विशेष्येण बहुलमित्यभ्यनुज्ञातोऽपि समासः क्वचिन्नेष्यते । वृक्षः शिंशपा मेरुर्महीभृद् इत्यादिषु विशेषणसमासो नोपपद्यते । शिंशपावृक्षः मेरुर्महीद इति न शक्यते वक्तुं समासेन । कुत एतदिति चेदुच्यते यत्र पूर्वोत्तरपदे प्रत्येकं विशेषणविशेष्यभूते भवतस्तत्रैवायं समासो भवतीति ज्ञापनाय सूत्र उभयोरुपादानमिति न्यासः ।
अन्यत्र क्वचिच्छास्त्रेणैव प्रतिषिद्धः समासः । फलानां तृप्त इति भवति, न फलतृप्त इति । नृपाणामुत्तम इति भवति न नृपोत्तम इति । पञ्चमश्छात्राणा