पृष्ठम्:वाग्व्यवहारादर्शः.djvu/६२

पुटमेतत् सुपुष्टितम्
५८
वाग्व्यवहारादर्शः

अथ प्रकीर्णकम्

 इदानीं यत्र प्रयोगेषु विभ्रमन्त्यविपश्चितः सन्दिहते च विपश्चितस्ते कतिपये समुच्चित्य व्याख्यायन्ते, साध्वी प्रयोगविधा च प्रदर्श्यते ।

 प्रत्येकमिति यथार्थे वीप्सायामव्ययीभाव इति सर्वस्य विदितोर्थः । अव्ययीभावश्च नपुंसकं भवतीति प्रत्येकं नपुंसकमित्यपि नाविदितम् । इदं च नाञ्जसा वेद लोको वाक्येऽस्य कथं प्रयोग इति स विमृश्यते । अपि शक्यं नाम "फलाय निमितोपि नहि प्रत्येकं पादपः फली भवति" इति वाक्यं प्रणेतुम् ? नेत्याह । वीप्सायामर्थेsव्ययीभावः क्रियाविशेषणमेव भवितुमर्हति । वीप्साया ( व्याप्तेः ) विषयः पादपश्च बहुवचनान्त एव, अन्यथा वीप्सा द्योतिता न स्यात् । तस्मात् फलाय निमिता अपि पादपा नहि प्रत्येकं फलिनो भवन्तीत्येव साध्वी वाक्यप्रणीतिः । असमासे तु वीप्सायां व्याप्यमानं पदं द्विरुच्यते । द्विरुक्तिर्वीप्साया द्योतिका भवति यथा ग्रामे ग्रामे काठकं कालापकं चाधीयत इत्यत्र । स्पष्टप्रतिपत्यर्थं प्रयोगनिदर्शकानि वाक्यान्तराण्युदाहरामः -- येऽत्र पुर्यां साङ्गवेदविदस्ते प्रत्येकं निमन्त्रयितव्याः । अत्र त्रिंशच्छात्राः सप्तम्यां श्रेण्याम्, प्रत्येकं छात्रेभ्यः पारितोषिकाणि प्रदीयन्ताम् । विदितोऽयमर्थः प्रत्येकं विदुषाम् । षष्ठयर्थविवक्षया प्रत्येकस्येति न शक्यं वक्तुम् । अदन्तादव्ययीभावात्सुब्लुङ् न भवति, तस्य सुपोऽमादेशो भवति, तृतीयासप्तम्योस्तु स बहुलम् । प्रत्येकशब्दस्येत्थम्भूते प्रयोगे भाष्यकारव्यवहारो मानम्प्रथमम् देवदत्तयज्ञदत्तविष्णुमित्रा भोज्यन्तामित्युक्ते , न पुनरुच्यते प्रत्येकमिति, अथ च प्रत्येकं भोज्यन्ते ( १|२|१ )। अथर्वभाष्ये (८|६|१७) उद्धर्षिप्रभृतीनि प्रत्येकं योगरूढान्यसुरनामानीति सायणप्रयोगोप्येतं व्यवहारं समर्थयते । ताण्ड्यब्राह्मणभाष्येऽपि (१२|१२|६) एषैव प्रतीची प्रत्यञ्चती प्रत्येकं स्तोमानि प्राप्नुवतीति तस्यैव प्रयोग उक्तमर्थं भूय उपोद्वलयति । कविकुलपतिः कालिदासोप्येतमेव व्यवहारमनुरुन्धे यदाह - सा पौरान्पौरकान्तस्य रामस्याभ्युदयश्रुतिः । प्रत्येकं ह्लादयामासेति (रघु० १२।३)। अपरेषु निपातनेषु तु प्रत्येकं विभक्ति निर्देशः (काशिका ७|२|३४ सूत्रे) । जघन्यास्ते प्रत्येकं विनेयाः पूर्वसाहसम् ( ना० स्मृ० ) । ते सर्वे प्रत्येकं पणशतं दण्डार्हा भवन्ति ( मिता० याज्ञ०-२|२३५-२३७) ।

 वरमित्यनव्ययं मनाक्प्रिये नपुंसकम् । अव्ययमिति तु केषाञ्चिद्विभ्रमः । अत्रार्थेऽस्य प्रचुरः प्रयोगः । याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामेति मेघदूते । समुन्नयन्भूतिमनार्यसङ्गमाद्वरं विरोधोपि समं महात्मभिः (किरात० १|८) । एकवचनान्तत्वं च नियतम् - वरं हि भुक्तानि तृणान्यरण्ये तोषं परं रत्नमिवोपगृह्य । सहोषितं श्रीसुलभैर्न चैव दोषैरदृश्यैरिव कृष्णसर्पैः || (बुद्धचरिते ९|५३) असत्यपि वाक्यभेदे वरमिति नपुंसकैकवचनं प्रयुञ्जते प्रयोग-