कुशलाः-निःश्वासोद्गीर्णहुतभुग्धूमधूम्रीकृताननैः। वरमशविषै: सङ्ग कुर्याश्च त्वेव दुर्जनैः ॥ इत्यत्र कामन्दके ( ३।१८ ) यथा । मनाक् प्रियमित्यर्थस्तु पूर्ववदवस्थितः । काममाशीविषैः सङ्गः कुर्यान्न तु दुर्जनैः कदाचनेति वक्तुरभिसन्धेः। अन्यत्रापि । याः प्राणान्वरमर्पयन्ति न पुनः सम्पूर्णणदृष्टिं प्रिये इति (सा० द० ५४|२२)। प्राणार्पणमिच्छेयुर्न तु प्रिये पूर्णदृष्टिनिपातनमिति तदर्थः । वरं . महत्या म्रियते पिपासया तथांषि नान्यस्य करोत्युपासनम् । तस्माद्वरं सहायं तं शकटालं. समुद्धरे इंति ( क० स० सा० ५|४ )। यदि शंकटालं समुद्धरेयं तदा वरं स्यादित्यर्थमाचष्टे । साधीयो यथा स्यात्तथेत्यथे' वरं क्रियाविशेषणमिति व्यवहरन्त्यृवृषयस्तद्यथा प्र ते' अग्नयोऽग्निंभ्यो वरं निःशोशुचन्त (ऋ०. ७|१|४) । अयं सप्तभ्य आ वरं वि वो मदे प्रान्धं श्रोणं च तारिषद् इति च (ऋ० १०|२५|११)। आ पहि क्षेम उत योगे वरं नः (ऋ० ७|५४|३)। क्षेमे रक्षा नोऽभीष्टायोगे, त्वभीष्टतरेति विवक्षत्यृषिः| वरमिति प्रत्युतार्थेऽपि क्वचित्प्रयोगमवतरद्दृष्टंम्--शठस्तु समंयं प्राप्य नोपकारं हि मन्यते । वरं तैमुपकर्तारं दोषदृष्ट्या च दूषयेदित्यत्र यथा । उत्कृष्टे गुणवत्तरे वार्थे वर्तमानो वरशब्दो विशेषणं विशेष्यनिघ्नं भवति-हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा यत इतुिं याज्ञवल्क्यस्मृतौ (१|३५१) दर्शनात् ।
स्वागतशब्दप्रयोगमधिकृत्य किञ्चिद् विवक्षामः । अयं हि वाक्ये दुष्प्रयुज्यते प्रायेण । अभ्यागतस्यः स्वागतं करोति गृहीत्येवं वाक्यन्यासं साधुं मन्यन्ते साम्प्रतिकाः ।. इदं च प्रस्मरन्ति नहि स्वागतं क्रियते किन्तर्हि व्याह्वियते ।तस्मै) प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहारेति मेघे तथा दर्शनात् । स्वागतमिति स्वागतशब्दपदार्थकः शब्दः । स चोच्चारणक्रिययान्वेति न क्रियान्तरेण ॥ स्वागतं स्वाधीकारान्प्रभावैरवलम्ब्य वः । युगपद् युगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः ॥ (कुमारे २|१८)। स्वागतमिति संभाजनपर्यायो नं । स्वागतेन यथार्हेण (रा० ६।१११।३१)। अत्रापि स्वागतेन स्वागतशब्दोच्चारणेनेत्ययंमेवार्थः । भारतेपिं स्वागतमुच्यते न तु क्रियते इति स्पष्टमवगम्यते— तथं च स्वागतेनोक्तौ. ( तौ) विष्टरे संनिपींदतु ( उद्योग० ११३|२ ) इत्यत्र प्रयोगः । तं स्वयम् । स्वागतेनादृतवती इति (क० स० सा० ) इयंत्रापि स्वागतशब्दः सत्क्रियां नाह । आदृतवतीत्यनुपदं प्रयुज्यमानस्य क्तवस्त्वन्तस्य वैयर्थ्र्यप्रसक्तः। बाढं स्वागतशब्दोच्चारणेन सत्क्रियते स यस्मै स्वगतमित्यु- च्चार्यते शब्दः। न तु स खाक्षात्सत्क्रियावचनः येन स्वागतं करोतीत्युपपद्यत । श्रीमद्भागवते (१०।३९। ४) स्वागतमिति निर्विघ्नं सुखमित्यर्थे क्रियाविशेषणं प्रयुक्तम्--तातसौम्यागतः कश्चित् स्वागतं भद्रमस्तु वः । पदवाक्यव्यवहारे भागवतकारस्यं स्वच्छन्दः प्रवर्तत इत्येतदास्थितं व्यवहारं ’ नातिसूक्षेत् ।