पृष्ठम्:वाग्व्यवहारादर्शः.djvu/६४

पुटमेतत् सुपुष्टितम्

्ज्

६०
वाग्व्यवहारादर्शः

 सर्वनाम्ना निर्देशः प्रायेणःसत्त्वभूतस्यार्थस्य क्रियते । अतः एव सर्वनाम्ना प्रत्यवमर्शयोग्यत्वं द्रव्यत्वमिति वैयाकरणाः प्रतिपन्नाः । क्वचिंत्तु ईदमा क्रियमा- .णक्रियानिर्देशो दृश्यते--इदं गम्यते । इदं कविभ्यः पूर्वेभ्यो नमोवाकं प्रशारस्मह इति भवभूतिप्रयोगः ।

 ण्यन्तस्य् वृतेः प्रयोगो नानार्थको व्यवहरतोऽवसेयः । ण्यन्तको. वृतिः सकर्मको भवतीतिं न वेदनीया विज्ञाः । व्यवहारे .यदर्थवैचित्र्यं तत्र तेषामपि विविदिषोदियाद्रिति तद्वर्ण्यते-केन वृत्तिं वर्त्तयसि (कल्पयसि)। कृपणं वर्तयिष्यामि कृपणैः सह जीविकाम् ( भा० शल्य० ५॥२५ )। सोऽधिकारमभिक कुलोचितं काश्चन स्वयमवर्त्तयत् समाः (रघु० १९I४)। अत्र वर्तिराचरणेऽनुष्ठाने वर्तते । पुष्करे तु ततः शेषं कालं वर्तितवान् प्रभुः ( भा० आदि० २२१|१४) । अत्र वर्तिर्यापने वर्तते । हन्त ते वर्तयिष्यामि इतिहासं पुरातनम् इत्यनेकत्र भारते । हन्त ते वर्तयिष्यामि वज्रनाभवधं नृप ( हरिवंशे . २|९१|४ )। तत्र ते वर्तयिष्यामि यथा युद्धमवर्तत (भा० द्रोण० १३५।२८)। अत्र वर्तिर्वर्णन माचष्टे । ज्योतींषि वर्तयति च प्रविभक्तरश्मि: (शकुन्तले ९|६ ) । अत्र वर्तयतिः परिवर्तने भ्रमणे दृष्टः । रामोपि सह वैदेह्या, वने वन्येन वर्तयन् (रघु० १२|८० )। वर्तयन् = वृतिं कुर्वन् । कर्णो भृशं :न्यश्वसदश्रुः वर्तयन् (भा० द्रोण० २|८)। अत्र वर्तिमोचने वर्तते ।

 xxष्टा गतिनिवृत्ताविति भूवादिः प्रसिध्यति । मुख्येऽर्थे प्रसिध्यन्तितमां प्रयोगा इति न त उदाहार्यां भवन्ति । गौणेऽर्थे प्रवृत्तोऽयं धातुश्चमस्करोति -चेतः। रेणुकाया: सुत इव मूलेष्वपि न तिष्ठतीति कामन्दके (९|४६) प्रयोगे तिष्ठतिः क्रियाविरामे वर्तते । मूलावर्हणेप्यस्य प्रवृत्तिर्न विरमतीत्यर्थः । तिष्ठाद्रोगो अयं तवेत्यथर्वश्रुतौ (६|४४|१)। अत्र रुधिरस्रवात्मको रोगस्तथा तिष्टतु यथा न स्रवतु, विरमतुं. स्रुतिरित्यर्थः ।

 वसतेरपि गौणेऽथे प्रयोगः सुतरां रुच्यो भवतीति स न्यस्यते—निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः । अबन्ध्यकालो वश्यात्मा स वै पण्डित उच्यते (भा ० उ० |३३|२४। अत्र वंसतिर्वेिरामे वर्तते । कर्म प्रारभ्य मध्ये नं विरमति, कर्मान्तं यातीत्यर्थः । मूर्धिनि त्वां वासयेयं वै संशयो मे न विद्यते (भा० विराट् ९|२२)। अत्र वासिः स्थापने वर्तते ।

 गर्ह्याधीनौ च वक्तव्यावित्यमरः पठति । वाच्यो वचनीयो .वक्तव्यः इति शब्द त्रितयेन.गर्ह्य उच्यते। अथावाच्यः सर्वैः स्वमतिपरिणामावधि: गिरन्निति महिम्नः स्तोत्रे वाक्यो गर्ह्य' इत्यनर्थान्तरम्। एवं सद्वृत्तमतिक्रान्तो वक्तव्यतां..याति लोक इत्यत्रापि.गर्हणीयो भवतीत्यर्थः । अत्रार्थे' प्रयन्ते प्रयोग इति न प्रपञ्च्यन्ते।