इत्यादिषु तात्पर्यंतोंऽन्तरायमाह । अन्तरं यान्ति अन्तराया भवन्ति, विघ्नमा चरन्तीत्यर्थः।
औपचारिकाः प्रयोगाः
तत्र तत्र मुख्येऽर्थे व्यवहारनिरूपणायां कृतायां संप्रति गौणेऽर्थे व्यवं हारमवतारयामः ।
इदं हि प्रतिपन्नप्रायं विमर्शकैः शाब्दिकैरन्यैश्च विदग्धैर्मुख्येर्थे ‘ प्रयोगा न तया स्वदन्ते यथा गौणेथे एकस्यान्यंस्यान्यत्र गुणक्रियाध्यासात्सादृश्यसमाश्रयेण प्रवर्तन्ते तत्र तत्रोपचाराः कवीनाम् । अग्निर्माणवक इत्युक्तिर्यथार्थवती रुचि करी च न तथा. तेजस्वी माणवक इति । निमीलन्ति पङ्कजानि, उन्मीलन्ति कुमुदानि । अत्र चक्षुर्धर्मो निमेषोन्मेषे पङ्कजेषु कुमुदेषु चाध्यस्य संकोचविकासौ तथोच्येते । तथा चोच्यमानौ रम्यतरौ प्रतीयेते । क्वचितु मुख्येर्थे ग्राम्यत्वं गौणे च मनोज्ञत्वमुद्भवतीत्यनुभूतिः सुचेतसाम् । तथा चोदाहरत्याचार्यदण्डी
निष्ठयूतोद्गीर्णवान्तादिः . गौणवृत्तिव्यपाश्रयम् ।
अतिसुन्दरमन्यत्र ग्राम्यकक्षां विगाहते । इति
मुख्येर्थे' निष्ठयूतादिश्रुतय उच्चारिता उद्वेगाय भवन्ति श्रोतृणाम् । यावता निष्ठेवनादिकाः क्रिया जुगुप्सावहा भवन्ति, इमाश्च ताः स्मारयन्ति पुरः सन्निघापयन्तीवेति भवन्त्युद्वेजिकाः ।. अनिरुद्धप्रसरतादिं सामान्यधर्ममादायान्यत्राविष्करणादावर्थे प्रयुक्तास्तु सौभाग्यमधिकं वहन्ति । तथा निष्ठ्यूतश्चरणोपभोगसुलभो लाक्षारसः’ केनचित् । वागस्या अमृतमुद्गिरति नयने च स्नेहं वमतः । सत्यमियं वामा। चन्द्रः सुधोद्गारीति किमत्र चित्रमित्यादि ।
औपचारिकाः प्रयोगः सुभगंकरणा निबन्धस्य रम्यतरतामस्यापादयन्तीति च्छात्रप्रबोधाय कानपीहानुक्रमामो विवृत्य च सनाथयामः-
'पुनरुक्तवस्तुविरसः सर्गक्रमो वेधस’ इति । पुनरुक्तं हि मुख्यया वृत्याऽसकृदुक्तं व्यर्थं वचो भवति । लक्षणया पुनः पूर्वेण संमानमनपेक्षितमर्थमात्रमाहं । "व्यापारैः पुनर्युक्तभूतविषयैः" इति च भर्तृहरौ। ' रे रे पुनरुक्ताकार दुराचार निशाचरे'ति बालरामायणे । ‘भत्खरिणस्तु परगुणेषु वाचंयमा’ इति । वाचंयमो मुनिर्भवति । मुनिश्च मितवाक्तूष्णीं ‘भवति मननात् । तेन वाचंयम इति तूष्णीमर्थ उपचर्यते । ‘कविसार्थः समग्रोपि तमेनमनुगच्छति ’’ इति । ‘अप्रतिभस्य पदार्थसार्थः परोक्ष एवेति’ च । सार्थशब्दो मुख्यया वृत्या वणिगा दीनां सरतां समूहमाह । अत्र तु लक्षणया समूहमात्रम् । ‘कुरु मामम्ब कृतार्थ-