पृष्ठम्:वाग्व्यवहारादर्शः.djvu/६८

पुटमेतत् सुपुष्टितम्
६४
वाग्व्यवहारादशे

सार्थवाहम्’ इति । सार्थवाहो हि यातां वणिजां नेतारमाहं मुख्ययां वृत्या, तत्साधर्म्यादन्योपि कश्चिदयातामपि . सत्तमस्तथोच्यते । ‘मंन्महे किमपि तुन्दिलं महः' । तुन्दिलमिति तुन्दिभमाह मुख्यया वृत्या । तुन्दं जंठरं प्रवृद्धमस्यास्तीति व्युत्पत्तेः । अतिशायनेत्र मत्वर्थीयः। अन्यदपिं यत्किञ्चिदतिशयितप्रमाणं प्रवृद्धं वा भवति तदपि तुन्दिलं भवति गौण्या वृत्या। ‘न. स्वप्नानुभवस्य कश्चिदपरः सत्रह्मचारी ममेति.' । सब्रह्मचारी नाम समानशाखाध्यायी भवति, एतादृशयोर्द्वयोः साहचर्यमनुक्तमपि गम्यते, तेनान्योपि समानकर्मा सहचरस्तथोच्यतो लक्षणया । हे. व्यसनसब्रह्मचारिन्, यदि न गुह्यं तदा श्रोतुमिच्छामि’ (मुद्रा०. ६) इह कृच्छ्रे संविभागी तथा सम्बोध्यते । ‘अयं मे सखा दुःखसब्रह्मचारीति कया गिरा तं स्तवीमि' । प्रजल्पितायामभिजातवाचीति कुमारे । अत्राभिजातशब्दो लक्षणया सुकुमारार्थपर्यवसायी । ‘नेत्र विप्रोषिताज्जनं मुखम्’। प्रीतिनिर्वासितत्रपाः। अत्र विप्रवसननिर्वासने चेतनधर्मावञ्जने त्रपायां चाध्यारोप्येते । असंनिहितेर्थे च विप्रोषितनिर्वासितशब्दावुपचर्येते । 'विस्मृतनिमेषेण चक्षुषा । अत्र विस्मृतपदेन विगतार्थतोच्यते । यद्धि विस्मृतं भवति तन्मनसोऽपेतं भवति । तत्सादृश्यादन्यदपि यदपेतं भवति तदुच्यते विस्मृतमिति । अपि वाऽन्तःकरण धर्म विस्मरणं चक्षुष्यध्यस्य तथोच्यते, तथा ह्युच्यमानमावर्जकं भवति । ‘तं व्यतिकरं निशम्य हृष्यन्ति नो लोमानि।' अत्र मनोधर्मी हर्षो लोमस्वध्यस्यते । अथवा यंत उंदञ्चन्ति लोमानि तंतो हृष्यन्तीवेति जायतेऽनुमा । त्वद्दृष्टेरितिंथी भवन्तु पञ्चालाः । अतिथिरभ्यागतो भवति । अतिथय इवातिथय इत्यौपमिकः प्रयोगैः अतिथिरूपगन्ता भवति । इमे पञ्चालास्त्वद्दृष्टेः पात्रीभवन्त्वित्यर्थः। ‘प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः' इति मेघे । अत्र मैत्रीशब्दो लक्षणया संसर्गमाह । प्रसिद्धं हि मित्रयोः साहचर्यम् । ‘प्रसन्नो ब्राह्मणशेषः' इंति शतपथे सायणः। प्रसन्नः प्रसादगुणवान् विंशद इत्यर्थः । यथा प्रसन्नं मनोऽकलुषं भवति तथा स्पष्टाक्षरार्थ: सन्दर्भः प्रसन्नो भवति । विमंला आपश्च प्रसन्नो भवन्ति । ‘भवति हरिणलक्ष्मा येन तेजोदरिद्रः। अत्र दरिद्रः इति क्षीणो हीनो वाऽभिधीयते । एवं मध्यो दरिद्रातीत्यत्र कृशमुदरमित्यर्थः । ‘मुष्टिग्राह्यं तमः' । अत्र मुष्टिग्राह्यमिति गौण्या वृत्या’ सान्द्रार्थमाचष्टे । यद्धि शक्यते मुष्टिना ग्रहीतुं तत्संश्लिष्टावयंवं घनं भवति i 'पाणिप्रणयी कोदण्डदण्डः' । अत्र प्रणयिशब्देन लक्षणय सम्बद्ध उच्यते । ‘आसन्नसखीमुखेन’। अत्रासन्नशब्द आप्तं विस्रम्भभाजं वाऽऽह । यो ह्यासन्नो भवंति सोभ्यन्तरीक्रियते विस्रम्भालापेष्विति लोकप्रसिद्धेः । ‘नेदिष्ठो धर्मार्थसंहितासु’ इति दशकुमारचरिते । अत्र नेदिष्ठो निपुण इत्यत्रार्थे लाक्ष- णिकः । यथाभ्यन्तरो निपुणार्थस्तथा नेदिष्ठ - इत्यंत्रार्थान्तरसंक्रमक्रमो न दुरूहः ।