पृष्ठम्:वाग्व्यवहारादर्शः.djvu/७०

पुटमेतत् सुपुष्टितम्
६६
वाग्व्यवहारादर्शः

मासादनं वाह । नियमंविधित्वपक्षस्तु वज्रहस्तेनापि नोपहस्तचितुं पार्यते । अपहस्तयते हस्तेन निरस्यतीत्यनर्थान्तरम् । अत्र निरसनमात्र उपचर्यतेऽतितरां च शोभते। क्रिया हि द्रव्यं विनयति ना द्रव्यभू' । द्रव्यमयं माणवकं इति च । ‘द्रव्यं च भव्ये (५|३।१०४)इति द्रव्यशब्दो भव्येऽर्थेनिपातितः। अयं चास्य गौणोर्थ इति तत्त्वम् । द्रव्यं हि गुणक्रियाधारो भवतीति काणादाः । तत्साम्याद् यदि. कश्चिद् गुण्यः कर्मटश्च भवति स उच्यते द्रव्यमिति । ‘माणिक्यावलिकान्तिदन्तु- रतरैभूर्षासहस्त्रोत्करैः’। अत्र दन्तुर शब्देनोत्कट उद्भूतो वाऽर्थ उच्यंते लक्षणया । उन्नतदन्त इति त्वभिधया । 'कियज्जलमनुभवतीयं कलशी’। अत्रानुभवति: । संभवतिना समानार्थकः। यद्धि येनेन्द्रियेणानुभूयते स तस्य विषयो भवति, जलमपि कलशीकर्तृकाया धारणक्रियाया विषय इति कलशी जलमनुभवंतीत्युच्यते साधर्म्यात् । 'अस्य ग्रन्थस्य सुप्रणीतया कयापि टीकया साचिव्यं करणीयम् । साचिव्यशब्दः साह्यं साहाय्यं वाऽऽचष्टे गौण्या वृत्त्या। सचिवो हि राज्ञा सचते संगच्छते सम्मन्त्रणार्थमिति तथोच्यते । ‘ईश इत्ययमनन्यचुम्बित श्चन्द्रस्चूड तदपि त्वयि ध्वनिः’। ‘चुबि वक्त्रसंयोगे इति पठितो धातुरंत्र संयोग मात्रे लाक्षणिकः । ‘इदमुज्जृम्भते बिम्बं भानोः'। अत्रोज्जृम्भत उद्गच्छतीत्यनर्थान्तरम् । जृम्भणे हि श्वासोद्र्गतिर्भवति गात्राणां चोर्ध्र्वमुखो विनामः । तेनोद्गमनसामान्यमादाय प्रयोगः।

.

 इवतुल्यादय उपमावाचकाः प्रसिद्धाः । अन्येपि गौणवृत्तिव्यपाश्रयेणौपम्यमाहुः । ते कतिपयेऽत्रानुक्रम्यन्ते प्रबन्धचारुत्वस्य प्रकर्षाय। ‘चक्षुर्मेचकमम्बुजं विजयते वक्त्रस्य मित्रं शशी'। 'कुवलयच्छायांमुषा चक्षुषा’। सम्प्रव्येणेक्षणानां तिमिरभरसखी वर्तते वेषलीला। ’ केनान्येन विलङ्घ्यते विधिगतिः पाषाण रेखसखी। यवसूचिसूत्रसुहृदः सुधांशोः कराः’। ‘सब्रह्मचारी नवमेघरुच्याः'। ‘गङ्गावर्तसनाभिर्नाभिः' । ‘भ्रू सूत्रस्य सनाभि मन्मथधनुः।' 'कटाक्षविक्षेपाः शिशुशफरफालप्रतिभुवः' ।

              जमदग्निप्रतिच्छन्दः सरूपो यः किरीटिनः ।
              सम्मितो रघुनाथस्य शिवराजो विराजते ॥ इति ।

 निस्त्रिशः खङ्गो भवति । निर्गतस्त्रिंशतोऽङ्गुलिभ्य इति व्युत्पत्तेः । स इवेति नित्रिंशःक्रूरः !

 त्यक्त्वा सन्तापजं शोकं दंशितो भव कर्माणि (भा०शान्ति० २२|९) । दंशितो ‘व्यूढकङ्कट . इत्यमरः । । अत्र तूद्यतः सज्ज इत्यर्थः। विदुरो धृतराष्ट्राय गान्धार्याः पाण्डवारणिः । न्यवेदयेतां तत्सर्वं कुमाराणां विचेष्टितम् ॥ इति भारतपद्ये ( आदि० १|३४,|३५) पांण्डवारणिशब्देन पाण्डव