पृष्ठम्:वाग्व्यवहारादर्शः.djvu/७१

पुटमेतत् सुपुष्टितम्
६७
औपचारिकाः प्रयोगाः

मातोच्यते । यथारणिरग्नेर्योनिस्तथा कुन्ती पाण्डवानामिति : तद्धर्मारोपेण तथोच्यते ।

 मण्डलानि विचित्राणि यमकानीतराणि चेति भारतपद्ये (वन० १९I८) यमकशब्दः सुद्दशमाह । यमौ यमजौ ह्याकारादिना तुल्यौ भवतः । इवार्थे कः ।   संवाससमयो जीर्ण इति भारतस्ये’ श्लोकचरणे (आदि० १५५|४०): जीर्णशब्दो लक्षणयाऽतिक्रान्तमाह ।

 निवातम् इति मुख्यया वृत्त्या वाताभावं निबद्धवातं वा प्रदेशमाह । र्थाः कुड्यनिवातमित्यत्र । गौण्या. तु निराबाधं पार्श्वमाह--राजनिवाते वसति । सुखं मातृनिवातम् इति वाते वातत्राणे (६|२|८) इति स्वरसूत्रे काशिकायाम् । वेदे खल्वपि–निवात एषांमभये स्यामेति (तै० सं० ५|७|२|४ ) । अन्यत्र (अथर्व० ६|५५|२ ) निवातमिति । विशेषणमपि प्रयुक्तं दृश्यते—निवात इदः शरणे स्यामेति ।

 दुर्दिनमिति मेघाच्छन्नेऽहनि रूढम् । उपचाराद्वर्षेपि वर्तते— मंददुर्दिनश्रीः (रघु ० ५|४७ )। मदस्रुतिसन्ततिर्विवक्षिता। अन्यत्र वृष्टयान्धकारितेपि लक्ष्यते--सम्प्राप्ते दुर्दिने काले दुर्दिनं भाति वै नभ इति हरिवंशे (३५७२) । पांसुवर्षेण पतता दुर्दिनं च नभोऽभवदिति (रा० ६।९०|२९)। मकरन्द दुर्दिंना••• ‘उद्यानभूमय इति प्रबोधचन्द्रे ।'बाष्पदुर्दिनाक्षी’ इति दशकुमारचरिते ।

 नेत्रं नयनं शरीराङ्गमुच्यते । नीयतेऽनेनेति । तद्धर्मारोपादन्योपि पित्रादिर्नेत्र- मुच्यते । तथा च भारते प्रयोगः–‘त्वन्नेत्राः सन्तु ते पुत्राः (२|२४८६) । अत्रे ऋर्षेर्गोत्रांपत्यं स्त्री आत्रेयीति व्यपदिश्यते । यथा सा पुमन्तरेणागम्या भवति तथा सद्यो दृष्टरजा रंजस्वलापीति. सधर्म्याद्रजस्वलाऽऽत्रेयीत्युच्यते। तथा चर्तुमतीपर्यायान्पंठत्यमरेः-रजरवला । स्त्रीधर्मिण्येपि चात्रेयी मलिनी पुष्पवत्यपि ।

 कात्यायनी त्यर्धवृद्धां काषायवसनामधवामाह रूढ्या । मुख्यया वृत्या तु कतस्यर्षेर्युवापत्यमाह । औपमिकोऽयं प्रयोगः । कात्यायनीव कात्यायनी, ऋषिपत्न्याकारत्वात् ।

 ककुदमिति प्रधानादिष्वर्थेषु पठति . कोषकारः, तथा ह्यमरे पाठः-प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम् इति । वस्तुतो वृषाङ्गमिति मुख्योऽर्थ औपः चारिकौ चेतरौ । वृषाङ्गगतमौन्नत्यमादाय ककुदस्यान्यत्र प्रयोगः । शैलश्रुृङगेपि तद्धर्म्यात्प्रयोग उपपन्नो भवति । त्रिककुत्पर्वते इति' पाणिनीय शासने यथा ।