पृष्ठम्:वाग्व्यवहारादर्शः.djvu/७२

पुटमेतत् सुपुष्टितम्
६८
वाग्व्यवहारादर्शः

अयं हि प्रधानेर्थे' भारतगतः प्रयोगः--ककुदं सर्वयोधानां धाम सर्वधनुष्मताम् (६|४९८ ) ।

 युद्धातिथ्यं प्रदास्यामि यथाप्राणं निशाचर ( रा०-३।५०|२८) । आतिथ्यं यथाऽभ्यागतस्य क्रियत एवं युद्धेन त्वां सत्करिष्यामीति विवक्षितोऽर्थः । आति- थ्यसकारसदृशः सत्कार आतिथ्यशब्देनोच्यते ।

 शारदः शरद्भवमाह मुख्यया वृत्त्या । कोषकारास्तु शारदं प्रत्यग्राप्रतिभयोः पर्यायमाहुः । तथा चामरः पठति-द्वौ तु शारदौ प्रत्यग्राप्रतिभाविति शरंद्युपेतायां शाम्यति रजः, आश्यायते पङ्क: प्रसीदति -सलिलम् , निर्धौतमिव विभाति गगनमिति शारदं सर्वं नवमियं भवति । तेन शारदशब्दो नूतनमर्थमुपसङ्क्रान्तः । शारद इव शारद इत्यौपमिकं प्रयोगः । अत एव सद्योरज्जूद्धृतं प्रत्यग्रमनुपहतमुदकं रज्जुशारदमुच्यते ।

 अपपूर्वो राधिरपक्रियायामागस्करणे प्रतिकूलाचरणे वा रूढः । अतः यस्मिन्कस्मिन्नपि पूजार्हेऽपराद्ध शकुन्तला। ( शाकुन्तले ४ )।अपराद्धोसि तत्र भवतः कण्वस्य. ( शाकुंतले ७ ), किम्पुनरसुरावलेपेन भवतीनामपराद्धम् (विक्रमोर्वशीये १ ) इत्यादयः प्रयोगः प्रथन्ते । अत्रापराधिरपक्रियादिचेतन घममाह । निमित्तादपराद्धे षोर्धानुष्कस्येव वल्गितम् इति माधवाक्ये (२।२७) sसावचेतन इंषावध्यारोपित इति चारुत्वमारोपितः प्रयोगः । अत्र निर्मित्तादित्यतिरिक्तम् अनर्थकम् । अपराद्धपृषत्कोऽसौ लक्ष्याद्यश्च्युतसायक इत्यमरे निमित्ता च्च्युतिलक्षणस्यापराधस्यापराद्धशब्देनैवावगतेः । अपराद्धाsभिषेकवेलोपाध्यायस्येति विक्रमोर्वशीयेऽपराद्धेत्यतिक्रान्तेत्याह । मुख्यया वृत्त्या त्वपराद्धा हिंसिता भवंति । मनोज्ञ , इति मुख्यया वृत्त्या मनसो ज्ञातारमाह तथा च भारते प्रयोगः- तथैव सहदेवोऽयं सततं त्वमनुव्रतः । न जातु विनिवर्तेत मनोज्ञो ह्यहमस्य वै ( वन० १४०।१४) । अभिरूपोऽर्थोपि द्रष्टुमानसं प्रविश्य जानातीवेति मनोज्ञ उच्यते ।

 अन्यत्रापि चेतनधर्मस्याचेतने सङ्क्रान्तिर्लक्ष्यते सुभगा- न मे मूढा दिशः पाप त्वदर्थं में विलम्बितम् ( भा० वन० १५७|४८) । अत्र वक्त्रां स्वगतो मोहों दिंक्षूपचरितः ।

 अन्तरमवकाशो भवति कालकृतो वा दिक्कृतो वा । तेननन्तरमित्यनवकाशमव्यवहितमाह । अव्यवहितेर्थे प्रथन्ते प्रयोगाः | प्रातिवेश्य इत्यनन्तरगृहवासी भवति । राम इति दशरथस्यानन्तरापत्यम् । यच्चाव्यवहितं भवति तदत्यन्ताय संनिहितं भवति । तेनानन्तरशब्देन सामीप्यं लक्ष्यते । तेन च सौलभ्यम् । तथा च प्रयोगःप्राज्ञस्यनन्तरा वृत्तिरिह लोके परत्र च (भा० वन० २०९|४३)।