अदूरवर्तिनी सुलभेत्यर्थः। काये चानन्तरोऽभवत् (भा० वंन० २८०|७ ) इत्यत्रानन्तरः संलग्न इत्यनर्थान्तरम् ।
‘दाण्डजिनिको दाम्भिको भवति । तत्कस्मात् । दण्डश्चार्जिनं च दण्डा जिंनम् । यतीनां लक्ष्मभूतमुपकरणम् । तच्च दम्भार्थमपि सेव्यत इति दम्भार्थं सङ्क्रान्तम् `दण्डाजिनेन दम्भेनान्विच्छत्यर्थानिति दाम्भिकः। गौणर्थकदेव दण्डाजिनशब्दात्प्रत्ययविधिरित्यपि स्थितमाकरे ।
न हि सहजेन प्रातिभेनालंकृताः पूर्ववासनानुगृहीता एव सुकृतिनः सिध्यन्तिं प्रसन्नगम्भीरेषु वाचां गुम्फेषु,किन्त्वपरेपि वाक्परिशीलनप्रसिताः कामपि सिद्धिम- धिगच्छन्तीत्यभिप्रायकं श्रीदण्डिनो वचः समुद्धृत्य प्रकृतमुपसंहरामः--
“न विद्यते यद्यपि पूर्ववासनागुणानुबन्धि प्रतिंभानमद्भुतम् ।
श्रुतेन यत्नेन च वागुपासिता भुवं करोत्येव कमप्यनुग्रहम् ॥" इति ॥
पर्यायवचनंविवेकः
पर्यायवचनविंवेकश्चिरस्य लुप्त इति व्यवहरे मुह्यति लोकः । यत्र तत्र प्रयोगसाङ्कर्यमक्षिलक्षीभवतीति व्यंवहारनिरूपणेऽस्मिन्ग्रन्थे पर्यायविवेचनमवसरप्राप्तमिति तदारभ्यते—
के नाम पर्यायवचनाः। ये पर्यायेणार्थं ब्रुवन्ति ते पर्यायवचनाः । पर्यायो नाम परिपाटी क्रमः । इदमुक्तं भवति—ये शब्दा असंनियुक्ता असहोच्चारिता एकार्थस्य वाचकास्ते पर्यायवचनाः समाख्यायन्ते । इदं चातोर्थादापद्यते य एकार्थका इति कोषेषु पठिता. लोके वा तथात्वेन परिगृहीतास्ते चेद्युगपद्वाक्ये प्रयुक्ताः स्युर्नैकार्थकाः स्युः । अवश्यं तत्र विशेषेण केनापि भवितव्यमनिर्ज्ञातेन। अर्थगंत्यर्थो हि शब्दप्रयोगः । अर्थस्य चैकेन सम्प्रत्ययादितरस्य वैयर्थ्यप्रसङ्ग. इति सुव्यवस्थितः पर्यायवचनानां सममप्रयोगः ।
विभूर्माद्रा प्रभूः पित्राऽश्वोसि हयोस्यत्योसि मयोस्यर्वासि संप्तिरसि वाज्यंसि वृषासि नृमणा असीति वाजसनेयके (२२|१९) श्रूयते । अत्राश्वो नाम चतुष्पाज्जातिविशेषः कैरपि नामंभिस्तोष्टूय्यते हयादिभिरिति विवरीतारः । यंदिं चेहाश्वेन संनियुक्तानां हयादीनामत्यन्तायाविशेषस्तदा नार्थोsनेनाश्वस्तवेन । यदि हयादयोऽभ्युक्चीयमाना अर्थाभ्युच्चयाय न प्रक्ल्पेरंस्तदाऽनुलंपितमेतत्प्रलपितमिवं स्यात् । न ह्यश्वोऽस्यश्वोस्यश्वोसीति सांभ्रेडमुद्यमानं वचः स्वंदंते नाम, न वा वाक्सरणीं लौकिकीमनुसरति । तेनात्राश्वजात्यनतिक्रमेपि हयांदीनां