पृष्ठम्:वाग्व्यवहारादर्शः.djvu/७४

पुटमेतत् सुपुष्टितम्
७०
वांग्व्यवहारादर्शः

‘गुणक्रियाविशेषाद्विशेषोऽभिघित्सितः। यस्तावदश्व आशीयोध्वानमतिंयाति चिरतरं च प्रयाति न च क्लमथं याति स इयो वाऽत्यो वेत्युच्यते । यंश्च संगरेषु रथस्य वोढा सन्नरीन् हिनस्ति स उच्यतेऽर्वेति । यः पुनः सैन्येन संपति संगच्छते. स सप्तिरितिं व्यपदिश्यते । यश्च वीर्यवान् पुष्कलबीजशक्तिः स वाजीति वा वृषेति वाभिलप्यते । एवं व्याक्रियमाणे तस्मिन् यजुषि सर्वे सुस्थं भवति । प्रत्यर्थं शब्दनिवेशाद्यावतमर्थानामभिधानं तावतां प्रयोगो न्याय्य इति भाष्योक्तदिशाऽर्थाधिक्ये शब्दाधिक्यं च निर्दुष्टं भवति ।

 इहाम्नायवचने हयादीनां यः परस्परमर्थभेदः स ' गच्छता कालेन तिरोहितोऽभूदिति ते हयादयोऽस्वार्थे निर्विंशेषं प्रयुक्तास्सन्तः पर्यायतामयुः । गुणवचनेषु तु बहुलमेतदभूदिति शक्यं न्यक्षेण निदर्शयितुम् । वेदे तावद् वाजिशब्दोऽत्यविशेषणमश्वविशेषणं वा प्रयुक्तः-अत्यं न वजिनम् ( ऋ० १।१२९।२), अश्वं न वाजिनम् (ऋ० ७|७।१ ) इत्यत्र यथा । एवं सप्तिशब्दप्ययं विशिंषन्दृष्टः :- अत्यं न सप्तिम् (ऋ० ३।२२।१ ) यथा । मह्युर्वीपृथिव्यादीनां मिथो विशेषण विशेष्यभावेन दाशतये . प्रायिकः प्रयोगः । तद्यथा—उर्वीं पृथ्वीम् (ऋ० ७॥ ३८|२ ), ग्रथेयं पृथिवी मही दाधार (ऋ० १०/६०i९ ), उनत्ति भूमेिं पृथित्रीमुत द्याम् (ऋ० ५|८५|४ )। कालेनोर्व्यादीनि विशेषणानि विशेष्यार्थं समर्पयन्ति पृथिव्यादिभिः पर्यायवचन्तामगुः ।. अध्वरशब्दो लोके यज्ञपर्याय इति परिगृहीतो वेदे यज्ञो विशेषणं दृश्यते । तद्यथाग्नेयं यज्ञमध्वरं विश्वतः परिभूरसि ( ऋ० १|१|४ ) । न ध्वरति न हिनस्तीत्यर्थयोगादध्वशब्दोऽहिंसकमाह । यस्मात्सर्वोपि यज्ञोऽविशेषेण यजमानभवति, तमपायात्पाति, न हिनस्तीति यावत, तस्मात्सोऽध्वरोऽभूत् । स्वेनैव च विशेष्यार्थमर्पयन्यज्ञपर्यायतामयात् । लोकेपि चैवं.बहुधा विलोक्यते | तद्वथा । सानुमानितिं पर्वतपर्यायः .पर्वतनमस्वमरादिभिः पठ्यते । अयमपि पुरा पर्वतविशेषणमपि प्रयुयुजे, उत्तुङ्गशिखरं चाचचक्षे । तथा चादिकवेः प्रयोगः—आपगाश्च महानूपाः सानुमन्तश्च पर्वताः ( रा० २|४८|१० )। विहङ्ग इति पक्षिनामसु पठ्यते । अयमपि विहायसा गच्छतीत्यर्थसमाश्रयेण पक्षिविंशेषणं प्रयुज्यते पुरा । तद्यथा । तां विनाथ विहङ्गोऽसौ पक्षी प्रणदितस्तदा (रा ० ४|१| ५५ )। अंशुमानितिं ‘सूर्यनामसु पठ्यतेऽभिधीनकोषेषु । पुरा सूर्यविशेषणत्वेनाप्यस्य प्रयोगो बभूवेति स्पष्टं श्रीरामायणे। तद्यथा । उद्यतोंशुमतः काले खं प्रभेव विवस्वत :(२|३९|१८) इति । शाखी विटपी पल्लाशीति वृक्षनामसु पठ्यन्ते । अमी चापि शब्दा वृक्षविशेषणभावेन प्रचुरं प्रयोगमवातरन्निति शक्यते निदर्शयितुम् । तथा च भारते प्रयोग:-पलाशिनं शाखिनं च तथा विटपिनं पुनः | तं दृष्ट्वा जीवितं ,वृक्षं