पृष्ठम्:वाग्व्यवहारादर्शः.djvu/७६

पुटमेतत् सुपुष्टितम्
७२
वाग्व्यवहारादशं

षस्य नामधेयानि सन्तोपि विशेषाविवक्षायां सेनासामान्यमभिदधानाः परस्परं पर्याया भवन्ति ।

 एवं पर्यायाणां विकासे दिङ्मात्रं प्रदर्शिते तेषां प्रतिनियतविषयतामधिकृत्य किञ्चिदुच्यते--आह च भाष्यकारः-नियतविषया शब्दा दृश्यन्ते । तद्यथा । समाने रक्ते वर्णा गौर्लोहित इति भवत्यश्वः . शोण इति। समाने च काले वर्णे गौः, कृष्णः इति भवत्यश्वो हेम इति । समाने .च शुक्ले वर्णे गौः श्वेत इति भवत्यश्वः कर्क इति ।. रक्तादयः शब्दाः शोणादिभिः समानार्था. विविच्यन्ते सूरिभिः। तथा च बन्धुजीवजपासन्ध्याच्छायावर्णे मनीषिभिः । शोणरोहितरक्तानां प्रयोगः परिकीर्तितः । इति भागुरिमुदाहरंत्यमरव्याख्यायां सर्वानन्दः - इन्धनं त्वेध इध्ममेधः समिस्त्रियामित्यमर इन्धनादीनां पर्यायवचनतायामपि समिदिध्म योस्तु होमीय इन्धन. एव बहुलः प्रयोग इति वाग्योगविदः ।

 आभिधानिकैः पर्यायवचनतया संपठिताः शब्दा येनाभिप्रायेण तथा पठिता- स्तमित्थ्ङ्कारमम्यूहन्ति प्राञ्चः -तमालपत्रतिलकचित्रकाणि , विशेषकमित्यत्रामरें तमालपत्रादीनां चतुर्णो पर्यायत्वमन्तरेणं तमलपत्राक्रुति कस्तूर्या ललाटे तमालपत्रम् । तिलकाकृति तिलकम् । चित्रकं नानावर्णम् । विशिनष्टि विशेषकम् । इत्थं तिलकभेदा एते । पर्यायत्वं त्वदूरविप्रकर्षादिति स्वामी स्माह । अन्यत्र च आकारस्त्विङ्ग इङ्गितमित्यमरं व्याचक्षाणः स एवाह। इङ्गिताकाराभ्यां भावज्ञान मित्यादौ गोबलीवर्दन्यायेन इङ्गितं चेष्टितम् आकृतिग्रहणभाकारों, मुखरागादिरिति कौटिल्यो व्याख्यत् । अयं त्वनयोराशयज्ञापकत्वादैक्यं मन्यत इति . ।

 अयमत्र -निष्कर्षः। ये खल्वभिधानकोषेषु . समानार्थका इति परिपठिताश्र्शब्दास्ते नात्यन्ताय समानार्थका भवितुमर्हन्ति, भिद्यते हि तेषामथः कयापि कलयेति । यथेक्षुक्षीरगुडादीनां माधुर्यं सान्तरं सदपि .न तथा विभाव्यते न वा वाचा प्रणिगद्यते भेदस्यांतिसौक्ष्म्यात्, तथा समानार्थकानामप्यवान्तरो विशेषो भवति, न च लक्ष्यते, सौक्ष्म्यादिति तलक्षणे प्रकृतो यत्नः । तत्र च न वयमुत्प्रेक्षा- मात्रसचिवाः प्रमाणान्तरनिरपेक्षाः प्रवर्तितुमंर्हामः । तथाजातीयका नः प्रवृत्तिः प्रजानां प्रीतये प्रतीतये वा न स्यात् । तेन संस्कृतं वाड्मयमवगाहमवगाहं यद्यत्प्र- कृतोपयोगि शिंष्टवचनं पश्यामस्तत्तदिह समामनामःयथावसरं यथामनीषं विमर्श च निजं प्रवर्तयामः ।

 सत्यं तथ्यमृतं सम्यगमूनिं त्रिषु तंद्वतीत्यमरे सत्यऋते समानार्थके पठिते । ऋतं वदिष्यामि । सस्यं वदिष्यामीत्यत्र तैत्तिरीयोपनिषदि तु स्पष्टं नानार्थे। तत्र ऋतं यथाशास्त्रं यथाकर्तव्यं बुद्धौ सुपरिनिश्चितमर्थम् । सत्यमिति वाचका याभ्यां सम्पद्यमान इति शाङ्करं भाष्यम्। ‘कोर्हंति मनुष्यः सर्वं सत्यं वदितुम् ।