सत्यसंहिता वै देवा अनृतसंहिता मनुष्या इत्यैतरेयब्राह्मणे (१|६ )ऋतं वाच दीक्षा । सत्यं दीक्षेत्यैतरेयब्राह्मणश्रुतिं व्याचक्षाण ऋतसत्ये इत्थं निरूपयाञ्चकार भट्टभास्करः मानसमर्थतथात्वमृतम् । वाचिकमर्थतथात्वं सत्यमिति । गोविन्दस्वामी तु यथार्थवादित्वमृतम् । यथार्थदृष्टवादित्वं सत्यमित्येवं प्रोवाच ।
यशः कीर्तिः समज्ञा चेत्यमरेण यशःकीर्तिशब्दौ पर्यायवचनौ समुपन्यस्तौ । साहित्ये तु वाक्येषु समं प्रयुक्तौ दृश्येते इति पर्यायता. विहन्यते । तथा च जैमिनीयोपनिषदि प्रयोगः--तस्मात्तप्यमानस्य भूयसी कीर्तिर्भवति भूयों यश इतेि ( २|१|१३ ) । श्रीरामायणेप्यनेकत्र सहप्रयोगो विलोक्यते । तद्यथा । तेने हास्यतुला कीर्तिर्वंशस्तेजश्च वर्धते ( २|२|३३ ) । तत्र तिलककारो रामः कीर्तिः शौर्यादिजा यशो दानादिजा प्रसिद्धिरिति तयोर्विशेषमाह । अन्यत्र च रामायणे न साम्ना शक्येते कीर्तिर्न साम्ना शक्यते यशः (६।२।१६ ) इत्यत्र पद्येऽसावेवं विविड्त्ते--कीर्तिदेशान्तरख्यातिः यशः स्वदेशख्यांतिरिंतिं । अत्रैकतरं व्याख्यानं प्रमाणमुभयं वाऽनुभयं वेति नार्हामो वक्तुम् । मनुसंहितायामप्येतयोः साहचर्येण प्रयुक्तिरुपलभ्यते । तद्यथा । इन्द्रियाणि यशः स्वर्गमायुः कीर्ति प्रजा: पशून् (११|४० ) इति । तत्र जीवतः ख्यातिंरूपं यशः । मृतस्य ख्याति रूपां कीर्तिमिति कुल्लूकंव्याख्यानम् नेदं सर्वत्र घटत इति न वेद्यो विदां वराः | तथा हि भगवद्गीतासु अकीर्तिःचापि भूतानि कथयिष्यन्ति तेऽव्ययामिति पद्ये. जीवत्.एवाकीर्तिर्मरणान्मरणदुःखादपि सुदुःसहा भवतीति निगदत एव स्पष्टा प्रतिपत्तिः । मृतस्य सतःसम्भावितस्य जनस्याकीर्तेर्मरणातिरेकोऽकिञ्चित्कर इति तदुक्तिरनर्थिका स्यात् । यावद्धि प्रथते लोके पुरुषस्य यशो भुवि । तावत्तस्याक्षया कीर्तिर्भवतीति :विनिश्चिता (भा० शा ० ५४|३२)। इति पद्यं व्याचक्षाणो भारतभावदीपकारो नीलकण्ठ आह--यशः परचितचमत्कृतिजनको गुणौघः । कीर्तिः साधुतयाऽन्यैः कथनम् इति । इह यत्नेनोद्भावितो भेदो प्यभेद एव पर्यवस्यतीति नातितिरोहितं सूक्ष्मदृशाम् ।
परीवादपवादौ प्रायेण पर्यायौ परिगृह्येते । तत्रापि सहप्रयोगः पर्यायत्वापघातको दृश्यते । तथा च श्रीरामायणे .प्रयोगः - 'परिवदोऽपवादो व राघवे नोपपद्यते (२ | १२ |२७ )' । तत्र रामष्टीकाकार एवं तयोर्भेदं निर्ब्रूते --परिवादो कार्यकरणंनिमित्तं समूलमयशः । अपवादोऽसूयाकत्पितं निर्मूलमयशः । गुरोर्यत्र. परीवादो निन्दा वापि प्रवर्तत इत्यत्र मनौ विद्यमानदोषस्याभिधानं परिवादः इति कुल्लूकः। परिवादः सम्भूतदोषानुकथनम् । निन्दाऽविधमानानां दोषाणा- मभिधानमिति च मेधातिथिः |