मित्रं सखा सुहृदिति समानर्थकानि नामानि परिपठतेि कोषकारः। विंशेषज्ञास्त्वत्र विशेषं विजानन्तिं । प्रथते च प्राचामुक्तिः-अत्यागसहनो बन्धुः सदैवानुगतः सुहृत् । एकक्रियं भवेन्मित्रं समप्राणः सखा मतः ॥ इति । यदत्र मित्रलिलक्षयिषयोक्तं तत् तन्मित्रमापदि सुखे च समक्रियं यद् इति हर्युक्त्या संवादात्सष्टूपपन्नं भवति । भारते शांन्तिपर्वणि (१७४।२८) असुहृत्ससुह्रच्चापि सशत्रुर्मित्रवानपीति पठ्यते । तत्र मित्रसुहृदोर्मेदेनोपादानमिति व्यक्तम्। तं च भेदमित्थं विवृणोति भावप्रदीपे नीलकण्ठः सुहृत्प्रत्युपकारमनपेक्ष्योपकारकर्ता मित्रं प्रत्युपकारमपेक्ष्योपकारकतृ ।इदमत्रावश्यवाच्यं सुहृच्छब्द संनियोगेन मित्रशब्द इदमर्थाभिधायी भवति सुहृच्छब्दार्थपारिशेष्यात् । न तु मित्रशब्दः सर्वत्र प्रत्युपकारम्पेक्षयोपकर्तरि रूढः । यच्च प्राचीनैः सुखिशब्दमुद्दिश्य समप्राणः सख मत इति परिभाषितं तत्ववचिदेवावितथम् । बाढं शाकुन्तले षष्ठेङ्के 'मंधुकरिकायाः परभृतिकां सखीं प्रति ‘एकमेव नौ जीवितं द्विधा स्थितं शरीरम्’ इत्युक्तिस्तस्यार्थस्य पोषिका भवति । प्रायशश्च सखिशब्दः सहचरमाह सहायं वा । तथा च कवीनां प्रयोगाः—बनेचराणां वनितासखानाम् इति कुमारे (१।१० ), सचिवसख इति रघौ (४।८७ )। मरुत्सखाभमिति च । समानं ख्यातीति सुखेति व्युत्पत्तेर्ययोर्द्वयोः शीलादि समानं भवति तयोरेव सखिभाव इत्यभ्युपगमाच्च समानावस्थितिकाः समानव्यवस्थितिकाश्च परस्परं सखायो भवन्ति । अयं चार्थो भारत आदिपर्वणि द्रोणोद्देश्यया द्रुपदोक्त्या सााधीयः समर्थ्र्यते । एवं हि सोऽवादीत्-नऽश्रोत्रियः, श्रोत्रियस्य नारथी रथिनः सखा। नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ( १६६।१५ ) इति ।
गर्वोभिमानोहंकारो मानश्चित्तंसंमुन्नतिरिति पर्यायवचनाः। तत्र गर्वमधिकृत्य पूर्वाचार्यवाक्यमुदाहरति सर्वानन्दः--गर्वो नाम कुलैश्वर्यरूपविद्याबलादिभिः । इष्टार्थविषयप्राप्तेर्जायते नीचगोचरः ॥ इतिः भारते शान्तिपर्वणि ( २१३।४)। क्रोधात्काममवाप्याथ लोभमोहौ च मानवाः मानदर्पावहंकारमहंकारात्ततः क्रियाः। इति स्मर्यते । तथा मानदर्पाहंकाराणां पृथङ् निर्देशोर्थभेदस्य ‘प्रकल्पक इत्यभिव्यक्तम् । तमर्थभेदमित्थमुद्भावयति नीलकण्ठः--मान आत्मनि पूज्यताबुद्धिः। दर्प उच्छॄङ्खलत्वम् । अहंकारः परेषां तुच्छीकरणमिति । यश्चात्र् मानशब्दार्थ उक्तः स व्युत्पत्तिलभ्य इति प्रमाणान्तरं नापेक्षते । अभिमानोपिं विशिष्टः स एव । दर्पशब्दोऽपि यथातथं व्याख्यातः कन्दर्पो दर्पकोऽनङ्ग इति कामनमनि। कामाविष्टो हि दृप्यत्युच्छृङ्खलो भवतीति सार्वलौकिकम् ।
तर्जनं भर्त्सनं च समानाभिधेये इति भूम्ना व्यवह्रियेते । तथा च तर्ज भर्त्स भर्त्सन इति । अत्रापि विशेषः कश्चित् समस्ति । श्रीरामायणेऽनयोः सहप्रयोग- ., ५