पृष्ठम्:वाग्व्यवहारादर्शः.djvu/८

पुटमेतत् सुपुष्टितम्
वाग्व्यवहारादर्शः

 अस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्तीति भाष्याच्छक्यतेऽनुमातुमस्तेर्लट्परकस्याप्रयोगोऽपि दोषावहो न भवतीति । कोऽसौ । का प्रवृत्तिः । एको देवः सर्वभूतेषु गूढः । असाधुदर्शी किलाऽसौ । अहो मधुरमासां दर्शनम् । अपशवो वा अन्ये गोंअश्वेभ्यः पशवो गोश्वा (तै० सं० ५।२।९ ). इत्यादिष्वप्रयोगोऽस्तेर्वाक्यस्य लाघवाय भवति माधुर्याय च । भाष्यवचने ’पुरुषग्रहणमतन्त्रम् । अन्यत्राप्यस्तेस्त्यागो न दोषाय कस्त्वं भो इत्यादिषु । परं त्यागः क्वाचित्कः प्रयोगस्तु प्रायिकः । परमस्तिरयं न शक्यो वाक्योपक्रमे परित्यक्तुम् । अस्ति पुण्यकृतामधिवासो वासवावास इव वसुधामवतीर्णः ...श्रीकण्ठो नाम जनपद इति श्रीहर्षचरिते । अन्यत्रापि धात्वन्तरस्याप्यप्रयोगमनुमन्यन्ते शिष्टाः । प्रविश, पिण्डीम् । इह भुङ्क्ष्वेति त्यक्तम् । तदन्तरेण तदर्थगतेः । इति शङ्करभगवत्पादाः, इति गुरुचरणा इत्यादिषु मतोपन्यासात्मकेषु वाक्येष्वाहुर्मन्यन्ते पश्यन्ति प्रतिजानत इत्यादि तिङन्तं गम्यमानमपि वाक्यालङ्कृतये भवति । जुषन्ते हि शिष्टास्तम्प्रकारमास्वादन्ते च रसज्ञा दोषज्ञाः । यत्रापि क्वचिद्योग्यक्रियाध्याहारो न दुष्करः, किन्तर्हि निगदसमकालं तत्तत्क्रियापदं बुद्धिमुपारोहति तत्रापि परिहरन्ति तत् प्रयोगचणाः । तद्यथा--यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा । यश्चैनं गन्धमाल्येन सर्वस्य कटुरेव सः ।। अत्र च्छिनतवत्यादयः क्रिया अश्रुता अपि स्फुटावगमाः । एवम्--मा भवन्तमनलः पवनो वा वारणो मदकलः परशुर्वा । वाहिनीजलभरः कुलिशं वा स्वस्ति तेऽस्तु लतया सह वृक्ष ॥ इत्यत्रापि धाक्षीदित्यादयोऽनुक्ता अपि क्रियाः स्फुटमवभासन्त इति निरवधं वचः । अस्त्येवञ्जातीयके विषये आदिकविना कृतः क्रियापदस्य परिहारः, स दृश्यताम् - शृणु मैथिलि मद्वाक्यं मासान्द्वादश भामिनि । (रा० ३।५६।२४ ) इति । अत्र प्रतीक्षिष्य् इति शेषः सहसैवोपतिष्ठते न च यत्नं प्रतीक्षते । यश्चैवंकथने विच्छित्तिविशेषस्तस्य सहृदया अभिज्ञा इति नार्थो वाग्विग्लापनेन । संभ्रमे वाक्यकारो द्विरुक्तिं पदस्य विधत्ते । रक्ष रक्ष व्याघ्रो मामाघ्रातुमिच्छति । परं संभ्रमे तिङन्तपदपरिहारोऽपि दृश्यते । आपस्तावत् । इमा आपः। आसनं तावत् । इदमासनम् । इदमत्र तत्वं बोध्यम् । क्रियोच्चारो हि विलम्बयत्यर्थप्रतीतिं निर्दिश्यमानार्थप्रतिपत्तिं च । इष्यते चाकालहीनं प्रवृत्तिः । सा च लघुनैव न्यासेन


१. इदमत्र बीजं, बोध्यम्--सर्वपदार्थेषु चास्ति वाक्यशक्तिः । वृक्ष इत्युक्तेऽस्तीति गम्यते । न सत्तां पदार्थो व्यभिचरतीति ( योगभाष्ये ३।१७ ) ।
२. पिंण्डीमिति कर्मणा योग्यक्रियाक्षेपात् प्रकरणयवशाद् भुजिक्रियायाः प्रतीतेः सा नोक्ता ।
प्रविशेति क्रियापेक्षं कर्म गृहं नोक्तम् । उभयत्र वाक्यार्थे वाक्यैकदेशप्रयोगः । ३: अनुष्ठानम् ।