पृष्ठम्:वाग्व्यवहारादर्शः.djvu/८१

पुटमेतत् सुपुष्टितम्
७७
पर्यायवचनविवेकः

 मुत्प्रीतिः प्रमदो हर्ष इति हर्षनामस्वमरः । मुत्प्रमोदयोस्तु प्रत्ययो भिद्यते न प्रकृतिः । तेनानवकाशोऽर्थभेदः। प्रमोदामोदयोश्चाप्युपसर्गो भिद्यते केंवलं न प्रकृतिर्न वा प्रत्ययः। तस्मात्तयोरप्यर्थवैशिष्ट्यं न । इदानीं विचार्यते प्रीर्तिहर्ष- प्रमोदानां परस्परं को विशेष इति । इदानीं तावदभ्युपेयं प्रीतिर्नाम सामान्यस्तोष इति । अस्ति खलु मोदंहर्षयोर्भद इति श्रीरामायणे ‘न चाहृष्यन्न चामोदन् वणिजो न प्रसारयन्( २|४८|४) इत्यत्र स्पष्टा । तत्र हर्षेः शारीरो मुखविकासादिरूपः । मोद आन्तरो हर्ष इत्येवं विविनक्ति रामायणतिलके रामः। परं नायं विवेकः साधुर्भवतीति प्रलीमः। चरके विमानस्थानेऽनुमानज्ञेयान् भावान्प्रकृत्याह तत्र क्रोधमभिद्रोहेण,. शोकं दैन्येन, हर्षमामोदेन, प्रीतिं तोषेण "---विद्यात् । आमोदो गीतवादित्राद्युत्सवकरणम् । तोषो मुखनयनप्रसादादिः, तेन प्रीतिस्तोषमात्रम् । हर्षस्तु प्रीतिविशेषों मनउद्रेककारक इति चक्रपाणिंर्व्याचष्टे । इय मेव च साध्वी व्यमूव्या । मूल.आमोदेत लि्ङ्गेन हर्षमनु मिमीतीतेत्युक्तेः। यदि नाम हर्षो रामस्याभिमतः शारीरो मुखविकासादिरूपः स्यान्नासावनुमेयः स्यात् । प्रत्यक्षमुपलब्धेः । आमोदे हर्षलिङ्गत्वमपि नोपपत्तिमत्स्यात् । तेन रामोक्ती रभसोक्तिरिति नादृत्या भवति ।

 हेमशब्दो.हिरण्यस्य पर्याय इति स्वीकारः. तथा चामर--हिरण्यं हेमहाटकमिति । चरके विमानस्थाने तु भेदेनैतयोरुपादानम् । तत्र मांल्यदामदीपहिरव्यहेमरजतादि समासोक्तया पठितम्, व्याख्यातं च चक्रेण हिरण्यशब्देनाघटितं हेमंगृह्यते, हेमशब्देन च घटितमिति । तथा सत्यप्यंमरे प्रयोगसाङ्कर्यं दृश्यते यदाह--हेमरूप्ये कृताकृते इति । मन्ये वृत्तानुरोधादेवं प्रयुङ्क्त कोषकारः ।

 कुम्भघटयोरपि न प्रायेण सुग्रहो विशेषः ।+ अस्त्रि च स इति तं दिदर्शयिषामः । चरके सूत्रस्थाने इदानीं तावत्संभारान् - विविधानपि समासेनोपदेक्ष्याम इत्युपक्रम्य तांस्तानर्थान्परिगणयन् कुम्भघटौ साहचर्येण पठत्या चार्यः । तत्राह टीकांकारश्चक्रपाणिः--कुम्भो दृढावयवोऽपमुखो घट इति ।

 अनर्थकापार्थकयोरपि समानार्थकाभिमतयोर्विशेषं सुधियः स्वदन्ताम् । चरके विमानस्थाने वाक्यदोषान्परिगणयति ग्रन्थकारः । तत्रानर्थकमपार्थकं चेति दोषद्वयमपि कीर्तयति । स्वयमेव च व्याख्याति । तद्यथा । अनर्थकं नाम द्वचनमक्षरग्राममात्रमेव स्यात् पञ्चवर्गवन्नार्थतो गृह्यतें । अपार्थकं नाम यदर्थवच्च परस्परेण चायुज्यमानार्थकम् । यथा चक्रनक्रवंशवज्रनिशाकरा इति ।

 इदं चाकूतकरं भविष्यति विदुषां घृतिधैर्ययोरप्यर्थभेदः समस्तीति । भारते शान्तिपर्वणि चरके च तयोर्भेदेनोपादानं दृश्यते । भारते तावत्- तेजो धैर्यं क्षमा --