पृष्ठम्:वाग्व्यवहारादर्शः.djvu/८३

पुटमेतत् सुपुष्टितम्
७९
पर्यायवचनविवेकः

 तूणोपासङ्गतूणीरनिषङ्गः इषुधिर्द्वयोरित्यमरे पर्यायवचनाः। भरते त्वेषां भेदेनोपादानम् । तथा चोद्योगपर्वणि ( १५५|३ ) सानुकर्षाः सतूणीराः सवरूथा: सतोमराः सोपासङ्गाः सशक्तीकाः सनिषङ्गाः सहर्ष्टय इति पाठः। तत्र नीलकण्ठ एवं भेदमभ्यूहति-तूणीरो रथवाह्यो बाणकोशः । महानिषङ्ग इति यावत् । उपासङ्गा हयगजवाह्यास्तृणाः । निषङ्गाः पत्तिवाह्याः त एवेति । विराटपर्वणि (६०|२०|२१) तु स इत्थं प्रविवेकं तनुते ततो निषङ्गे महातूणीरे पतिते सति उपासङ्गात् क्षुद्रतूणीरात्स्वदेहवाह्यादिति ।

 पुमानाक्रीड उद्यानमित्याक्रीडोद्याने समानार्थके अभ्युपेयेते । एते अपि विशिष्येते । सृप्रयोगदर्शनात् । तथा च रामायणे पाठः देवाक्रीडशताकीर्णा देवोद्यानयुतां नदीम् (२|५०|१५ ) इति । तत्र देवानामाक्रीडैः क्रीडापर्वतैरिति तिलकम् ।

 अटव्यरण्यं विपिनं काननं गहनं वनमिति वनंनामस्वमर: । एषां गहनमिति दुष्प्रवेशार्थमभिधाय दुष्प्रवेशं वनमभिधातुं प्रावृतदिति पर्यायवचनं बभूवेत्यधस्ताद् दर्शितम् । इतरेषामप्यदूरविप्रकर्षात् पर्यायत्वम् । सहप्रयोगो हि दृश्यते । तथा च श्रीरामायणे प्रयोगः-दुष्प्रतीकमरण्येस्मिन् किं तात वनमागत इति (२।१००।५) । तत्रारण्यं गजाद्युपभोग्यम् । वनमाम्रादियुतं मनुष्यभोग्यमिति तिलककारो रामः । अन्यत्रापि रामायणे–शोभयिष्यन्ति काकुस्थमटव्यो रम्यकानना (२|४८|१० ) इत्यटवीकाननयोः सहप्रयोगः । तत्र रम्यकाननाश्चारुवृक्षसघा इत्येवमर्थापयति रामः ।

 वल्ली तु व्रततिर्लतेत्यनर्थान्तरमिति कोषकृतः । परं वल्लीलंतयोः सहप्रयोग- दर्शनान्नेमे पर्यायाविति गम्यते । तथा च भारते भीष्मपर्वणि प्रयोगः –वृक्षगुल्म लतावल्ल्य इति' तंत्र लता बृक्षाद्यारूढा गुडूच्यादयः । वल्ल्यो भूमिप्रसारा वर्षमात्रस्थायिन्य इति विशेषमभिव्यनक्ति नीलकण्ठः। बलीवीरुधोस्तु व्यक्ततरो भेदः । एतयोरपि रामायणे (४|४८|०१ ) सप्रयोगः । तद्यथा । न चांत्र वृक्षानौषध्यो न वलयो नापि वीरुध इति । तत्र वल्लयो वृक्षांद्याश्रितः । वीरुधो भूम्याधारा इति तिलके रामः । तदिदं नीलकण्ठीयेन व्याख्यानेन विरुध्यते ।

तीक्ष्णनिशितौ पर्यायवचनाविति प्रतीतौ । तावपि भिन्नार्थकाविति शक्यं प्रतिपत्तुम् । तथा हि भारते भीष्मपर्वणि भेदेनैतयोरुपादानम्-सायकेन सुपीतेन तीक्ष्णेन निशितेन च (४५|४८ ) इति । तत्र तीक्ष्णेन सूक्ष्मधारेण, निशितेन शांणोल्लीढेनेति नीलकण्ठः ।

 स्थपतिः कारुभेदेऽपीत्यमरे मूल एव स्थपतिः कालविशेष इत्युक्तम् । विवृतं च स्वामिना कारुविशेषो मुख्यतक्षेति । तेन स्थपतिर्वर्धकिंमात्रं न भवति । तथा