पौराणां श्रेणयः इत्यत्र चामर एकमुख्यः सजातीयसमूहः श्रेणिरिति त्वामिकृतमुदघाटनम् ।
प्रायेणालिङ्गनपरिष्वङ्गावेकार्थौ प्रतिपद्येते। तदप्यदूरविप्रकर्षान्न त्वत्यन्ताभेदादिति . श्रीरामायणे' सस्वजे गाढमालिंड्य (६|१०१|४६ ) इति वचनं प्रमाणम् । मन्ये बाहुभ्यां कृतस्यावेष्टनस्यालिङ्गनमिति नाम । वक्षसोपपीडनस्य च परिष्वङ्ग इति । 'परिरम्भ आश्लेष उपगूहनमित्येतेऽपि परिष्वङ्गेण समाः।
इदमिह विचार्यतेऽशनभोजनभक्षणखादनानि .समानार्थानि भवन्त्याहोस्विन्ना: नार्थानीति । तत्राशनभोजनै अभिन्नार्थे इत्यभ्युपगमः अभ्यवहरणसामान्यं च ब्रूतः यत्राभ्यवहार्यं विशिष्य नोच्यते तत्राश्नातिः प्रयुज्यते भुज़िर्वा। यथाऽऽशितः कृताहारस्तृप्त इत्युच्यते। यथा वाश्नीतपिबता वर्तत इत्यत्र । भुक्ता ब्राह्मणा इत्यत्र च। दुर्गस्त्वाह–लोकेपि हि नातिकठिने नातिद्रवेऽश्नातिशब्दः प्रसिद्धः । अश्नाति पायसमिति। (नि० ४|१९|६)।भक्षणखादने तु खरविशदस्यार्थस्याभ्यवहरणे वर्तेते।
खांदृ भक्षण इति साधुरर्थनिर्देशः । तथा च नीरिकारवचनम्-न परेणाहृतं भक्ष्यं व्याघ्रः खादितुमिच्छतीति । समुञ्चये सामान्यवचनस्येति सूत्रे (३|४|५ ओदनं भुङ्क्ष्व, सक्तून् पिब, धानाः खादेत्येवायमभ्यवहरतीति काशिकोदाहरणेपि भुजिखाद्योरौपयिकः प्रयोगः । भक्षिभुजी अप्यत्यन्तमेकार्थौ न | भक्ष्यतां भुज्यतां नित्यं दीयतां रम्यतामिति । गीयतां पीयतां चेति शब्दश्चासीद् गृहे गृहे (भा० आदि० २०९।३१) ॥ अत्र पद्ये भक्षिभुज्योः साहचर्यमेवैकार्थ्यै बारयति । पौर्णिनीयाष्टके संस्कृतं भक्षाः (४|२|१६ ), हितं भक्षाः (४|४|६५ ) इत्यत्रं च भ्राष्ट्रो संस्कृता भ्राष्ट्रा अपूपाः, अपूपभक्षणं हितमस्मा इत्यापूपिक इत्युदाहृत्योरपि यत्र दन्तव्यापारपूर्वकं निगरणं तत्र भक्षणव्यवहार इति विशदम् । खरविशदंमंभ्य वहार्य भक्ष्यमिति च काशिका । जिह्वाव्यापारमात्रेण यद्ग्राह्यं पायसादि तंद्भोज्यम् |परं भक्षणमन्यत्राप्यतिदिश्यत इति नानुपेक्ष्यम् भोज्यं भक्ष्य {७|३।६९) इति पाणिनीयं शासनम् । इह भक्ष्यमभ्यवहार्यमात्रमिति काशिका अंब्भक्षोः वायुभक्ष इति भाष्यप्रयोगे पि भक्षयतिरभ्यवहरतिना समानार्थः। खादतिस्तु नाऽशने सामान्ये क्वचिदिष्यते, शब्दस्वाभाव्यादिति विबुधा विभावयन्तु । अतएव संगच्छते चरके सूत्रस्थाने (२८|३ )ऽशितपीतलीढखादित- प्रभवाश्चांस्मिन्शरीरे व्याधयो भवन्तीत्यशितखदितयोः पृथङनिर्देशः ।
गिरिपर्वतौ पर्यायवचनाविति कोषकारः अथर्वसंहितायां (६|९७|३ ) त्वेतयोः साहचर्येण प्रयोगः -यथेयं पृथिवी मही दाधारं पर्वतान् गिरीन् इति । अवश्यं तर्ह्याभ्यां विविक्तांर्थभ्यां भाव्यम् । विविनक्ति चेत्थमाचार्यः सायणः-- पर्वता महाशैलाः । गिरयस्तत्पर्यन्तवर्तिन इति |