पृष्ठम्:वाग्व्यवहारादर्शः.djvu/८६

पुटमेतत् सुपुष्टितम्
८२
वाग्व्यवहारदर्शः

 भुजबाहू प्रवेष्टो ' दोरित्यमरपाठे दोर्बाहू पर्यायौ । परमिमावपि सान्तरौ, शौनकीया. ह्यस्नौ समभिव्याहारेणाधीयते तद्यथा-मित्रश्च वरुणश्चांसौ त्वष्टा चार्यमा च दोषणी महादेवो बाहू इति । अंससंसक्तदंशो दोः, ततः परो बाहुरितेि तद्व्याख्यातारः ।

 देवखातबिले गुहा गह्वरंमित्यमरः पठति । परं नैते गुहागह्वरे एकार्थे भवत्ः। गुहा गिरीणां गिरिगह्वराणीति साहचर्येण भारते ( वन० १७७|५) पाठदर्शनात् । गुहाऽल्पप्रमाणं दरी| गह्वरं महती दरीत्येवं नीलकण्ठः पर्यायतां व्यपोहति ।

 रत्नं मणिर्द्वयोरित्यत्र मणिरत्नयोः समानाभिधेयतामभीच्छत्यमरः । परं नैते समानाभिधेये भवतः। अस्त्यत्र विशेषः। मणिकाञ्चनरत्नानीत्यत्र भारते (आदि० १|१३२) सम्पाठात् । मणयो विषरोगादिहरा दिव्योपलाः। रत्नानि वज्रवैदूर्यादीनीति, नीलकण्ठकृतो, विवेकः ।

 हेतुकारणे पर्यायाविंति प्रायोवादः। परमेतयोरपि नात्यन्ताय पर्यायता । हेतुभिः कारणैश्चैव यथा यज्ञो भवेन्न स इत्यत्र. भारते ( आदि० ३७|१५) युगपत् प्रयोगदर्शनात् । हेतुभिर्विप्रशापामोघत्वादिभिः । कारणैस्तन्मूलैर्विप्रावज्ञादिभिरिति तत्र नीलकण्ठीयं विवरणम् ।

 क्षत्तृ स्रङ्ग्रहीत्रोः पर्यायत्वं प्रसिध्यति, तदपि न सत्प्रतिष्टम् । नमः क्षतृभ्यः संग्रहीतृभ्यश्च वो नम इत्यत्र ( १६|२६) वाजसनेयके युगपत्प्रयोगदर्शनात्। क्षत्तारो रथाधिष्ठातारो रथस्वामिनः| सङ्गहीतारः सारथय इति विवेक उवटे ।

 प्रायेण स्तेनतस्करौ पर्यायवचनावभ्युपेयेते। न चेदं साम्प्रतम् । वाजसनेयकें ( ११|७७ ) ये स्तेना ये च तस्करा इत्यत्रोभयोः सह प्रयोगदृष्टेः। स्तेना गुप्तचौराः । तस्कराः प्रकटचौरा इत्येवमेतौ महीधरो भिनत्ति । सायणस्तु अप स्तेनं वासो गोअजमुत तस्करम् (१९|५०|५ ) इत्यथर्व श्रुतिव्याख्यायामाह--स्तेनतस्करयोः पर्यायत्वे व्यवहार्यद्रव्यगौरवेण पृथंगपहननमुक्तम् इति ।

 तनुत्रं वर्मं दंशनम् । उरश्छदः कङकटको जगरः कवचोऽस्त्रियाम् इत्यमरे वर्मकवचयोः पर्यायवचनत्वं प्रव्यक्तम् । वाजसनेयके ( १६|२५ ) नमो बिल्मिने च कवचिने च नमो वर्मिणे च वरूथिने चेत्यत्र सहप्रयोगात्तद् विघटते पटस्यूतं कर्पांसगर्भ देहरक्षकं कवचम् । वर्म लौहम् इति हि तद्विघटनपरं भाष्यम् ।

 जवनाशुगयोरैकार्थ्य प्रयात्प्रत्येति लोकः । सोऽस्य भ्रमः । भारते (सभा० २७|२८ ) जवनानाशुगांश्चैव करार्थं समुपानयद् इत्यत्रोभयोः सम्पाठदर्शनांत् । इत्थं चानयोर्भेदं विवृणोति टीकाकृन्नीलकण्ठः-जवनान् धावने शीघ्रान् । आशुगान् यदृच्छया चलनसमर्थान् ।