याजयति जातुः तत्रभवान् वृषलं याजयति, गर्हामहे । अहो अन्याय्यमेतत् । अत्रदोषवतो: याजकस्य गर्हा नः त्वदोषस्यं ।
कृपानुकम्पादयः पर्याया इत्याभिधानिकाः तथा चामरे पाठः --कारुण्यं करुणा घृणा । कृपा दयाऽनुकम्पा स्यादनुक्रोशोपि इति । भारते त्वेषां, समानवाक्ये सम्पाठात्पर्यायत्वमंदूरविप्रकर्षादित्यनावृतं गम्यते । अयं हि भारते स्थितः पाठ्ः-- कृपाऽनुकम्पा करुण्यमानृशंस्यं च भारत ।“ कुरुषे तद् विशिष्यते (उद्योग० ९५|६)। कृपादीनिंर्त्थ व्यंविंचन्नीलंकंण्ठंः -- कृपा परस्य सुखार्थे यत्नः । अनुकम्पा परदुःखदर्शने त्रासः । कारुण्यं परदुःखप्रहणार्थो यत्नः । आनृशंस्यं परदुःखाप्रदानम् इति।
कुलवंशयो: प्रायेण पर्यायवचनतां प्रतियन्ति लोकाः। स एष विभ्रमः। -भारते अवल्गुकारिणं , सत्सु कुलवंशस्य नाशनम्( उद्योग० १३३|२९) इत्यत्र+ युगपत्प्रयोगदर्शनात् । तत्रायं.नीलकण्ठकृतः प्रविवेकः कुलं ज्ञातयः । वंशः सोमसूर्यादि मूलोत्पत्तिस्थानम्
चिन्ताशोकौ पृथुगर्थौ.पार्थगर्थ्ये. चिन्ताशोकपरायण इति भारते ( द्रोण० १|५) प्रयोग एव मानम् । इत्थं चेमौ विविनक्ति भारतभावदीपे नीलकप्ठः-- चिन्ता ध्येयविबषये मनोवृत्तिप्रवाहः शोक इष्टस्य पुनः पुनर्मनसि निवेशनमिति ।
रुधिरशोणिते कोषेषु पर्यायौ पठितौ । इदमष्यदूरविप्रकर्षान्न त्वैकान्त्येनैकार्थ्यात् । रुधिरौघवतीं कृत्वा नदीं शोणितंकर्दमाम् इति भारते द्रोण७ (१४१|२५) पठ्यते । अत्र रुधिरमोघ इत्युक्तम्, शोणितं च कर्दमूः। ततोऽनुमिन्मो घनं (संशीनं) रक्तं शोणितं भवति, तरलं च रुधिरमिति ।
सत्त्वौबलवीर्याणि पर्यायाः पठिताः कोषेषु, न त्वेषां पर्यायत्वं व्यवतिष्ठते । तमप्रतिमसत्वौजोबलवीर्यसमन्वितम् इत्यत्र भारते ( द्रोण० १|१ ) एषां सम्पाठात् । तत्रायं विवेको नीलकण्ठकृतः—सत्वं धैर्यं महत्यपि दुःखकारणे वैक्लव्यराहित्यम् । ओजो मनसं बलम् । बलं शरीरदार्ढ्यम् । वीर्यं समुत्साहादिहेतुः । क्वचित्समन्वितम् इत्यस्य स्थाने पराक्रमम् इति पाठः। तत्र पराभवसामंर्थ्यमिति टीकाकारः । अन्यत्रापि द्रोणपर्वणि (४२|४२ ) अत्यद्भुतमहं मन्ये बलं शौर्यं च सैन्धवे । तंस्य प्रब्रूहि मे वीर्यम् इत्याहतम् । अत्र बलं सामथ्र्यम् शारीरमिति विवक्षितम् । शौर्यमुत्साह:| वीर्यं प्रभाव 'इत्येवमर्थापयते सः | अंनुपदमुक्तेन वीर्यं समुत्साहादिहेतूरित्यनेनं विरोधों न शङ्कनीयः । समुत्साहस्य प्रभावहेतुकत्वात् ।