पृष्ठम्:वाग्व्यवहारादर्शः.djvu/८९

पुटमेतत् सुपुष्टितम्
८५
पर्यायवचनविवेकः

चारप्रणिधी प्रायेण पर्यायौ भतौ । भिद्यते त्विमावर्थतः । भारते (शां० ५८|५) चारश्च प्रणिधिश्चेति साहचर्येण पाठात् । तत्र चारो गुप्तस्पशः । प्रणिधिः स्पष्टः स्पश इति टीकाकरः'।

 प्रणिपाताभिवादने मिंथो विशिष्येते इति प्रतिपन्नप्रायंम् । भारते (शल्य० ६२|१६) कृताञ्जलिः सप्रणयं प्रणिपत्याभिवाद्य चेति पाठः। प्रणिपात उपसङग्रहणं विधिवच्चरणग्रहणं भवति । अभिवादनं तु वाचा नमउक्तिः अभि वादये देवदत्तोहं भो इत्यादिः ।

 हेतुकारणे अपि नाद्यन्तं समानार्थके । हेतुकारणयुक्तैश्च वाक्यैः कालसमीरितैः ( भा० शुल्य० ६१४२ ) इत्यत्रोभयोः साहचर्येण पाठोपलम्भात्। तत्र हेतवो दृष्टा अपराधाः । कारणान्यवश्यम्भावीनि इति विशेषः ।

 पर्यायाविति परिगृहीतौ मध्यस्थोदासीनावपि भिद्यते । उदासींनगणानां च मध्यस्थानां च भारतेत्यत्र (भारत आश्रम० ६|१) भेदस्य स्फुटमभिप्रेतत्वात् । तत्रोदासीनो नैकत्र पक्षपाती मतः । मध्यस्थश्च ततोऽन्यो द्वयोरपीष्टाकाङ्क्षी ' अन्यत्र माध्यस्थ्यमौदासीन्यान्न व्यतिरिच्यते । तथा च कविकुलपतेः प्रयोगः-- अभ्यर्थनाभङ्गभयेन साधुर्माध्यस्थ्यमिष्टेप्यवलम्यतेऽर्थे (कुं० सं० १|५२)।

 प्रकृतं निबन्धं भाष्यकारकृतेन पर्यायार्थप्रविवेकेण पर्यवसाययामः । आर्शसांयाँ भूतवच्चेति सूत्रे (३।३।१३२) भाष्य आशंसासंभावनयोरंविंशेषादिष्टा व्यवस्था न प्रकल्पेतेति दोषमुद्भाव्याहं भगवान्भाष्यकार:-'न वा संभावनावयवत्वादाशंसायाःसंभावनावयवात्मिकाssशंसाआशंसा नम प्रधारितोऽर्थोऽभिनीतश्चानभिनीतश्चसंभावनं नाम प्रधारितोऽर्थोऽभिनीत एवेति । अत्र कैयटः-- आशंसासंभावनयोरिति । आशंसासंभावनयोरर्थभेदाभावादविशेषे इत्यर्थः । आशंसानागतवस्तुवाञ्छा । संभावनमपि भाविवस्तूत्प्रेक्षणमिति भावः । न वेति । अवयवशब्दः पृथग्भाववाची । संभावनात्पृथगेवाशंसेत्यर्थः । प्रधारितोर्थ इति । इदं मे भूयादितिं मनसा विषयीकृतोर्थः। अभिनीत इति । कारणयोग्यतवशाच्छंक्यप्राप्तिरित्यर्थः । ततोन्योऽनमिनीत इति । अन्ये त्वप्रधारित इति पठन्ति । अनिर्धारितोऽवश्यंभावितयाऽनिश्चित इत्यर्थः । संभावनं चासति विंधुरप्रत्ययोपनिपाते भवितव्यमनेनार्थेनेति ज्ञानमित्यनयोर्भेद इति ।

इति पर्यायवचनविवेकोऽपवृक्तः।