पृष्ठम्:वाग्व्यवहारादर्शः.djvu/९

पुटमेतत् सुपुष्टितम्
वाक्ये पदक्रमः

शक्या न गुरुणेति सुग्रहं सुधीभिः । आपस्तावदाह्रियन्तामित्यधिककालोच्चार्यं वाक्यं समाहितस्येष्टं स्यान्न संभ्रान्तस्य । एवमपि निरनुक्रोशस्य पुत्रौ, मा चापलम् इति कुन्दमालायां सीतावचने, मा विमर्शो वसुमती भरताय प्रदीयताम्. इति श्रीरामायणे (२।३४।४४) ऽप्युक्तहेतुकृत एव क्रियापदपरिहारः। भारतेऽपि तद्धेतुकः स दृश्यते—त्वरमाणस्ततो भृत्यानासनानीत्यचोदयत् ( उद्योग० ९४।४४) । अत्रासनानि त्वर्यमाणानीच्छन् क्रियापदं परिहरति कुशलः प्रयोक्ता । क्वचिद् बलवदुक्तिकत्वाभिप्रायेण क्रियामभ्यावर्तयन्ति शिष्टा वाक्यभेदं च प्रयोजयन्तीति प्रसङ्गादुच्यते । तद्यथा भारते—अस्मान्वेत्थ परान्वेत्थ वेत्थार्थान् वेत्थ भावितुम् ( उद्योग० ७२।९२)।

 क्वाचित्कः क्रियापदपरिहारो दर्शितः । कर्तृकर्मणोरपि परिहारः क्वाचित्को व्यवहारमनुपततीति प्रसक्तानुप्रसक्तं प्रदर्श्यते- यद्यस्तमिते व्रतमुपेयात् (आप० श्रौ० ४।१।३।५ )। अत्र सूर्य इति नोक्तम् । अनुक्तौ सूत्रशैली कारंणमिति मा स्म भ्रमीः । अन्यत्रापि कर्तृपदपरिहारो दृश्यते—विद्योतमाने स्तनयत्यथो वर्षति ( गो० व्रां० पूर्वं० ३ ।१९ )। अत्र मेघ इति कर्तृपदं परिहृतम् | तदिदं बहुलं ब्राह्मणेषु । यत्र चापश्यत स वै तिरो वर्षाणि वर्षतीत्यत्र भारते ( विराट० ५।३० ) ऽपि मेघ इति कर्तृपदं पर्यहारि । श्रुत्वैव च स राजानं दर्शयामास भार्गवः (भा० आदि० ८१।१९ )। अत्रात्मानम् इति पदस्य परीहार इत्थम्भूतो व्यवहार इतिं दर्शयति । समुल्लिखद्भिरेतैर्हि त्वया शृङ्गशतैर्नृपः । क्वचिद् दृष्टोऽचलश्रेष्ठ वनेऽस्मिन्वा नलो नृपः ( भा० वन० ६४।५३ ) । अत्र द्यामिति कर्म नोक्तं, प्रसिद्धेः ।

वाक्ये पदक्रमः

 इत्थम्भूते वाक्ये कीदृशः पदानां क्रम इत्यधिकृत्य किञ्चिद् ब्रूमः , पात्रमाहर, आहर पात्रमित्येवं वाक्ये पदानां यथेष्टमभिसम्बन्धः क्रियते । तेनान्यत्रापि नियतः पदानां क्रमः कश्चिन्नास्तीत्युक्तं भवति । रामः सीतां परिणिनाय । सीतां रामः परिणिनाय । परिणिनाय रामः सीताम्। सीतां परिणिनाय राम इति रामकर्तृकः सीताकर्मको भूतानद्यतनपरोक्षवृत्तिः परिणय इत्यर्थो येन केनापि पदक्रमेण शक्यो वक्तुम् । अत्र वक्तृणां कामचारः । परमिदं प्रायिकम् । क्वचिन्नियतापि पदानुपूर्वी काचिदस्तीति नापलापमर्हति । तद्यथा-उपाख्यानोपक्रमः प्रायेणास्तिना क्रियते । अस्त्ययोध्यायां चूडामणिर्नाम क्षत्रिय इत्यादिः । अद्य सप्तवासरास्तस्येतो गतस्य। अद्य दशमो मासस्तातस्योपरतस्य (मुद्रा० ४ ) । व्यतीतः समयः (संवत्सरः) सम्यग्वसतां वै पुरोत्तमे । कुर्वतां तस्य कर्माणि विराटस्य महीपतेः ॥ ( विराट