वाचि पठितो भासनोपाधिकायामपि तस्यां दृश्यते वदते शास्त्रेः वादीति । विपरीतोऽपि क्रमो लक्ष्यते मंत्रिःगुप्तपारिभाषणेः इति पठितः परिभाषणमात्रेऽपि वर्तते, किं मन्त्रयसे मित्र । शंसु स्तुताविति विशिष्टे कीर्तने पठितः शंसतिः कीर्तनमात्रेऽपि वर्तते सुतजन्म शंसति. नृपायेति यथा । वद् व्यक्तायां वाचि इति पठितो वदतिरव्यक्तायामपि दृश्यते वदति वीणेति । शप आक्रोशे इति पठितः शपतिः करोत्यर्थेऽपि वर्तते, यथा “वसिष्ठश्चापि शपथं शेषे पैजवने नृपे ( मनु० ८|११० ) इत्यत्र ।
करोतिना सामान्यार्थकेन यथा विशेषाभिधानं भवति तथा दिङ्मात्रमिह दर्शयामः । वितरति गुरूः प्राज्ञे विद्यां यथैवं तथा जडे । न च खलु तयोर्ज्ञाने शक्तिं करोत्यपहन्ति वेति भवभूतिपद्ये करोतिरभूतप्रादुर्भावे । अत्र करोतिरुत्पाद- यतिना समानार्थः । एवमेव भयं करोतीत्यत्र आदिकर्मण्यपि वर्तते--चक्रे शोभयितुं पुरीमित्यत्र श्रीरामायणे ( २|७|१० ) यथा काष्ठं भस्म करोति, स्वर्णे कुण्डलं करोति । अत्र कृञ् विकरणे वर्तते । कुरु पदानि घनोरु शनैः शनैः । करिष्यसि पदं पुनराश्रमेऽस्मिन् , शनैः शनैः श्यामिकया कृतं पदम्। आकृति विशेषेष्वादरः पदं करोतीत्यादिषु करोतिर्निक्षेपणार्थमाह । अश्मानमितः कुरु । करोतिरत्र स्थापने वर्तते । दशम्यामुत्थायं पिता नाम करोतीत्यत्र गृह्ये करोतिः प्रयोगे निर्देश वा वर्तते । एवं ह्येष व्यवहार उपागतो रूढिं यदत्र लोंको धात्वन्तर प्रयोगं न मृष्यति प्रायेण। ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वदेति मनुवाक्ये करोतिरुच्चारणे वर्तते । मन्त्रादौ मन्त्रान्ते चोङ्कारमुच्चारयेदिति तदर्थः । पदं मिथ्या कारयते । अत्र मिथ्योपपदात्कृञोऽभ्यास (१।३|७१.) इत्यात्मनेपदम् । असकृदुच्चारयतीति चार्थः । शब्ददर्दुरं करोतीत्यत्र पाणिनीयेऽनुशासने करोति: प्रकृतिप्रत्ययादिविभागेन शाने वर्तते । शब्दं करोति प्रकृतिप्रत्ययादिविभागेन जानातीति शाब्दिकः। कलापिवैशम्पायनान्तेवासिभ्यश्चेति सूत्रव्याख्याने प्रत्यक्ष कारिणो गृह्यन्ते न तु शिष्यशिष्या इति वृत्तिकारः। अत्र करोतिरध्ययने वर्तत इति पदमञ्जरी | ऋषयश्चक्रिरे धर्मे योऽनूचानः स नो महानिति (मनु० २।१५४) अत्र करोतिर्व्यवस्थापने वर्तत इति मेधातिथिः । विचर्चिकातः कुरु, पदौ कुरु । अत्र करोती रोगापनयने उन्मर्दने च यथासंख्यं वर्तते इति भाष्ये स्पष्टम् । उदकं करोति पितृभ्य इत्यस्य पितृभ्यः सलिलं निवपतीत्यर्थः। तथा च 'गीतासु प्रयोगः-पतन्ति पितरो ह्योषां लुप्तपिण्डोदकक्रियाः इति । पतितस्योदकं कायें सपिण्डैर्बान्धवैर्बहिरिति च मनौ (११|१८२): कृतोदक उपयुक्तजल आचान्तः स्नातश्चोच्यते । अत्र करोतिरूपयोगे वर्तते ।
कुत्रो द्वितीयतृतीयशम्बबीजात्कृषाविति सूत्रे (पा० ५|४|५८॥ करोतिः कर्षणे वर्तते । बीजाकरोति क्षेत्रम् । बीजावापेन सह कुषति क्षेत्रमित्यर्थः।तथा