न तत्प्रसक्तिरस्ति; । न इत्यत्राप चैवं १२७ मामानाधिकरण्यबाधिकाया: मत्वात् । अन्यथा कारक विभक्तिवैयथ्यपत्तेः । * घटभ्य नीलो भाग: ' इत्यत्र * नीलो घट: ' इत्यत्रैव न कारकविभक्तिरस्ति । किंच उमयत्रापि तर्हि अरुणावाक्य तु आरुण्येन यथोक्तगुणकेन गोद्रव्येण च भक्तिस्त्वेऽपि वाक्यभेदप्रसङ्गे तामनादृत्य सामानाधिकर एयमिष्यते– यथा “ नीलं घटमाहर ' इत्यादौ । यत्र तु कारकविभक्तिरस्ति वाक्यभेदोऽपि न प्रसज्यते– “ नीलेन घटन जलमाहर ' इत्याद् । तथाभूतमुदाहरणमरुणावाक्य तुल्यमम्तु । न च उदाहरणद्वयेऽपि अमूर्तस्य गुणम्य क्रियासाधनत्वासंभवो दोषः, साक्षात्तदसंभवेऽपि द्रव्यपरि. च्छेदद्वारा तत्संभवात् । न च तथा सति द्रव्यान्तरस्यापि तद्वारत्वप्रसक्तिः, वाक्यार्थप्रतीतिवेलायां द्रव्यगुणयोः पर स्परान्वयं विना प्रत्येक क्रियासाधनतया अन्वयेऽपि द्रव्य स्य परिच्छेदकगुणाकाङ्कया गुणस्य परिच्छेद्यद्रव्याकाङ्कया च
पृष्ठम्:वादनक्षत्रमाला.djvu/१३७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति