पृष्ठम्:वादनक्षत्रमाला.djvu/१५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला | १४९ बाधितव्यम्-- इति त्रैदोष्यं प्रापुयात् । अतः तस्य प्रचयांशष्टस्वतन्त्रक्रयसाधनद्रव्यसख्यानुवादकत्वकल्पनमव युक्तम् ; वरो हि त्रिदोषदुष्टपरिसंख्याभ्युपगमापेक्षया तद नुवादकत्वाभ्युपगमः । अत एव “वैखानसं पूर्वेऽहन्साम भवति' इत्यङ्गिरसां द्विरात्रे पूर्वस्याह्रो वैखानससामविधा नानन्तरं श्रुतस्य ' षोडश्युत्तरे' इति वाक्यस्य पारिसं अनुवादकत्वमभ्युपगतम्- उत्तरस्याहः षोडशित्वं हि षोडशिनं प्रस्तुत्य प्रवृत्तेन सर्वद्विरात्राणामुत्तर स्याह्नः षोडशिविधायकेन ' उत्तरेऽहन्द्विरात्रस्य गृह्यते इत्यनारभ्याधीतवाक्येन सिध्यति ; ततश्च अस्यापि बाक्यस्य विधिपरत्वे अङ्गिरमां द्विरात्रस्यैव उत्तरेऽहनि षोडशिग्रह ग्राह्यः; न तु द्विरात्रान्तराणामुत्तरेष्वहःसु इति-द्विरात्रान्त गेभ्यः षोडशिग्रहव्यावृत्तिरूपपरिसंख्याविधिपरत्वमेव स्या दिति अङ्गिरसां द्विरात्रे षोडशिग्रहप्रापणरूपस्वार्थस्त्यक्तव्य धीतवाक्येन द्विरात्रान्तरेषु प्रामं षोडशिमत्वं च बाधितव्य मिति त्रैदोष्यं प्रसज्येत ; अत: * षोडश्युत्तरे' इत्यम्य अ नारभ्याधीतवाक्यप्राप्तषोडशित्वानुवादकत्वकल्पनमेव न्या यमिति दशमाध्याये व्यवस्थापितम् । तस्मात् आरुण्यस्य