पृष्ठम्:वादनक्षत्रमाला.djvu/२०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । ोमक्रतुविषयत्वं स्यादिति वाच्यम् ; तस्य प्रथमप्रयोगावस्थ योतिष्टोमविषयत्वे द्वितीयादिप्रयोगावस्थतदङ्गत्वालाभेन प्रकरणानुग्रहालाभात् फलत: सैद्धान्तिकप्रयोगाङ्गत्वपक्षप वसायित्वाञ्च । प्रथमप्रयोगमुपलक्षणीकृत्य केवलज्योति लाक्षाणकत्वस्य अभ्युपगन्तव्यतया प्रकरणा नुग्रहाय श्रुतेबाँधनीयत्वापत्तेः । एवम् * त्रिः प्रथगामन्वाह त्रिरुत्तमाम्' इत्यत्र * प्रथमाम्' इत्यनेन प्राथम्योपलक्षितप्र वोवाजीयाख्यग्विशेषग्रहणे लक्षणा स्यादिति तत्परिहारार्थ मेव तदग्रहणम्; न तु प्रतीतिशैघ्रघस्य वैदिकार्थग्रहणनिया मकत्वानुरोधेन ; तत्रैव साक्षात् प्राथम्याश्रयत्वेन शीघ्रप्रती तिकमनुवचनं परित्यज्य तद्वारा परम्परया प्राथम्याश्रयत्वेन पश्चात् प्रत्येतव्याया ऋचः *प्रथमाम्' इत्यनेन प्राथम्यसंयु क्तत्वाकारेण ग्रहणस्याप्यभ्युपगतत्वात् । तस्मात् प्रतीतिशै धयस्य वैदिकार्थग्रहणनियामकत्वानभ्युपगमे न्यायविरोधाभा वान् अन्तर्यामिणोऽपि ब्राह्मणत्वाद्याश्रयत्वाभ्युपगमे जीव वन् कर्मवश्यता स्यादिति दूषणस्य वज्रलेपायमानत्वात् त्वद्धे तुरसिद्धः, मद्धेतुश्च नासिद्ध इति ।