पृष्ठम्:वादनक्षत्रमाला.djvu/२२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१२ पूर्वोत्तरमीमांसा हितः; ततः प्रमाणाभावात् नासिद्धः इति । त्वद्धेतुरसिद्धः, मद्धेतुश्च शरीरस्य अन्तर्यामिििण परमेश्वरे शरीरशब्दवाच्यत्व संबन्धघटनार्थद्वारभूते जीवे तस्य संबन्धमात्रमपेक्ष्यते । न तु तथाभूत एव संबन्धः; संयुक्तविशेषणविशेष्यभावा दिषु घटकघटनीयसंबन्धयोरेकरूपत्वनियमाभावदर्शनात् तथा च उदाहृतश्रुतित्रयस्य न्यायलभ्याथैक्योपपादनाय शरीरस्य जीवेऽपि कश्चित् शरीरद्वारक: परम्परासंबन्धो ऽस्ति इति कल्प्यते ; श्रुतोपपादनार्थमश्रुतकल्पनौचित्यात् । अथवा श्रतोपपादनार्थमेव जीवद्वारमनपेक्ष्य परमेश्वरे शरी रशब्दवाच्यताप्रयोजकः साक्षादेव शरीरत्वस्य संबन्धवेि शेषोऽस्तीति कल्प्यते । एवं च काणत्वखञ्जत्वादीनां जीवे तत्तच्छब्दवाच्यताप्रयोजकसंबन्धविशेषाभावात् जीवे तत्त चच्छब्दप्रयोगनिर्वाहार्थ मत्वर्थयप्रत्ययविधानमपि युज्यते । न चायमस्ति नियमः, हीनस्वाङ्गवाचिनां मत्वर्थीयप्रत्ययेनैव जीवपर्यन्तत्वनिर्वाह इति, कुणिरहम- इत्यादावदर्शनात् एवं च कुणित्वादिवत् खञ्जत्वादीनां शब्दवाच्यताप्रयोजकसं बन्धसंभवेऽपि स्वरविशेषादिसिद्धयर्थ काणखजादिशब्देभ्य