पूर्वोत्तरमीमांसा अथ सप्तमी-- जीवेन' इति तृतीयाया: सहार्थत्वेन उपपदविभक्तिस्वे येन जीवेन परमेश्वरस्य साहित्यं तस्य आत्मत्वव्यभिच रात् ‘ आत्मना’ इत्येतत् व्यर्थं भवेत् , कारकविभक्तित्वे तु जीवशरीरकेण मया – इत्येतदर्थलाभार्थत्वेन तत् सथेकं भवति । तस्मादभ्यर्हितस्य कारकविभक्तित्वस्य ‘आरंमना । इति पदसर्थकत्वस्य च लाभार्थं यत्नान्तरमास्थायैव प्रथमो पपादन युक्तम् । यदे तु प्रसिद्धमयोदयेव तदुपपादनं कार्यम् , तदा जीवशरीरकेण मया इत्यस्य प्रवशाक्रयामात्रा- न्वयोऽस्तु ; तदा हि तस्यपसजनक्रयन्वयः शब्दव्याप रविषयो भवति । तस्य प्रधानक्रियान्वयभावेन अर्थात् सिद्यसंभवात् । ततश्च तत्र शब्दव्यापारविषयानाश्रयम् अनभिहितसूत्रं प्रवर्तत इति भाव्यं तत्र कारकविभक्त्या । । दृश्यते च तथैव प्रयोगः ‘इष्टका: पक्वा भुङ्क्ते’ इति । अत्र खलु इष्टकानां पाकक्रिययैवान्वय इति तदन्वयस्य शब्दव्यापारविषयत्वत् अनभिहिताधिकारविहिता कर्मणि द्वितीया दृश्यते । एवमिहापि कर्तरि तृतीया उपप- द्यते । तस्मान्न मद्धेतोः पूर्वोक्तदोषःत्वद्धेतोरेव स दोष । इतं ।।
पृष्ठम्:वादनक्षत्रमाला.djvu/२२८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति