पृष्ठम्:वादनक्षत्रमाला.djvu/२४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२ पूर्वोत्तरमीमांसा पि बहुत्वसंख्याभावेन च उभयथापि 'बहु स्याम्' इति सं कल्पायागात् ; तस्मात् उत्तराल्या सूक्ष्मदशापन्न सत् स्थूल दशापन्न स्याम्-इति संकल्पमकरोत् इत्येव तदर्थो वक्त व्य इति तदनुसारेणापि विशिष्टपरत्वमङ्गीकर्तव्यम्; ए वं च । दृष्टान्तदाष्टन्तिकयोरुभयोरपि एकविज्ञानेन सर्व. तिज्ञानं प्रमाणं भवत्येव ; तथा चिच्छक्तेः प्रपञ्चोपादान भाव प्रमाणत्वनाभ्युपगतान ' सवाण ह वा इमान भूता न्याकाशादेव समुत्पद्यन्ते ' इत्यादीन्यपि ब्रह्मण सर्वोपा दानभावमाक्षिपन्ति इति तत्र प्रमाणभावं भजन्ते ; चि भवस्यापि ब्रह्मापृथक्सिद्धिलाभात् ; तस्मात् सर्वोपादा नत्वहेतोः नासिद्धि: ; नापि साध्यस्य बाधः, ब्रह्मप्रप भवयोभेदेऽपि- सवै ब्रह्म- इति सामानाधिकरण्येन तस्य वृक्षत्वाद्याश्रयत्वोपपत्तेः; तद्धि ‘यतो वा इमानि भूतानि