पृष्ठम्:वादनक्षत्रमाला.djvu/२५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ ८० अथ षष्ठी कक्ष्या पूर्वोत्तरमीमांसा यदुक्तं विरोधो नास्तीति, तदसिद्धम्, ब्रह्मसंन्यासाभ्यु पगमानभ्युपगमाभ्यां विरोधस्याप्रत्याख्येयत्वात्, यत्तु जै मिनेः तदुभयाभ्युपगमप्रदर्शकं सूत्रम्, तत् तदभ्युपगम एव तस्य सिद्धान्त इत्यस्य ज्ञापकमिति न अवधारयितुं शा क्यम् , *विप्रतिषेधाचा समञ्जसम्' इति सांख्याधिकरणेोक्त न्यायेन जैमिनिमतस्य परस्परविरुद्धतया अनुपादेयत्वोद्धा टनपरत्वेन अन्यथासिद्धेः; यचोत्तं ब्रह्मानभ्युपगमतदभ्युप गामैकान्त्यादिषु जैमिनिबादरायणयो: विरोधसद्भावेऽपि ब्र यास्तस्या: चतुलेक्षण्या सह ऐकशास्त्र्यमुपपद्यत इति, तद् प्ययुक्तम्, अविरुद्धार्थत्वासिद्धेः; तथा हि- * तस्य निमि तपरीष्टिः' इति धर्मप्रमाणनिरूपणं प्रतिज्ञाय प्रथमाध्या हि * आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तस्माद् नित्यमुच्यते' इति सूत्रेण– आम्रायस्य कृत्स्रस्यापि प्रयोजनपर्यवसानाय क्रियार्थत्वावश्यंभावात् अतदर्थानाम्

  • वायव्यं श्वेतमालभेत भूतिकामः' इत्यादिक्रियावाक्या

नपेक्षिततया क्रियार्थत्वरहितानाम् आनर्थक्यं निष्प्रयोजन