पृष्ठम्:वादनक्षत्रमाला.djvu/२९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८२ पूवत्तरमीमांसा X तन्निवाहकाध्यापनद्वारकत्वकल्पनांचेत्याच ; तदवयेत्वं य द्यपि आधाननिष्पाद्यमाहवनीयत्वादिकमिव अलौकिकातिश- यरूपम् , त च न स्वत: पुरुषर्थःतथापेि “ आचयाय वरो दयः’ इत्यादिस्मरणात् दक्षिणादानादिहेतुत्वेन गौणपुरुषार्थों भवति ; अतस्तत्कामोऽयमध्यापनविधौ नियोज्यः इति सनि योज्यकेन तेन विधिना अध्ययनं प्रयुज्यते ~ इति ; तत्र करिष्यमाणपूर्वपक्षोपयोगिनमपेक्षितांशं परिगृह्य अध्ययनस्य स्वविधिप्रयुक्तत्वसमर्थनार्थं कथान्तरं प्रस्तूयते-- ‘स्वाध्यायोऽध्येतव्य:’ इति विधिविहितं नियमध्यय नम् अध्ययनविधिप्रयोज्यम् , विध्यन्तराप्रयोज्यत्वे सति । विधिप्रयोज्यत्वात्- इति सैद्धान्तिकी प्रथमा कक्ष्या । त्वदीय , हेतुर्विशेषणसिद्धःअध्ययनानुष्ठानस्य अध्या पनविधिप्रयुक्तत्वात्; तस्मात् उक्ताध्ययनानुष्ठानं न अध्य- यनविधिप्रयुक्तम् , अध्यापनविधिप्रयुक्तत्वात् , अध्यापन- वत्-- इति द्वितीया । अथ तृतीय कक्ष्या न मदीयो हेतुर्विशेषणासिद्धः अध्ययनस्य अध्यापन- विधिप्रयुक्तत्वायोगात् ; न च अध्ययनं विना अध्यापनं न निर्वर्तते इति तस्य तत्प्रयुक्तत्वम् , लौकिकाध्ययनेनापि