२९६ पूर्वोत्तरमीमांसा- त्मनेपदं न स्यादिति, तदपि प्राधान्यविवक्षावश्यंभावसमर्थ- नेन निरस्तम्; कामश्रुतिप्रयुक्तस्यधानस्य आधानारम्भे प्रयो जकस्य ‘अग्निहोत्रं जुहुयात्स्वर्गकामः’ इत्यादिवाक्येषु काम नाविषयत्वेन श्रुतस्य फलस्य कवेंकगतत्वात् , आधानस्य स्व विधिप्रयुक्त्यङ्गीकारेऽपि अग्निसंस्कारस्य आधानकर्तृगतत्वाच्च ; न हि तद्गतत्वं तत्समवेतत्वम् , किंतु तदथैमित्युक्तम्; अग्नि संस्कारस्य च यजमानगतत्वं निर्विवादम् ; न च तस्य ‘ अ नीनादधीत’ इति द्वितीयाधृत्यवगतमग्न्यर्थत्वमपि अस्तीति वाच्यम्, द्वितीयश्रुत्या हि हे संभारेषु मथिताग्निनिधानरूपा या आधानक्रियाया निधेयाग्न्यर्थत्वमवगतम्; न तु तज्ज न्यसंस्कारस्य, तज्जन्यसरकारांशेष्टत्वन आहवनीयाश ब्दवाच्यस्य ‘आहवनीये जुहोति' इत्यदिवाक्यान्तरा वगतभाव्युपयोगस्यनेः तद्विशिष्टरूपेण अrधानं प्रत्युत्पाद्य- कर्मत्वाङ्गीकारेण तस्यैव तदर्थत्वायोगात्; तस्मात् आध• नक्रियाजन्यसंस्कारस्यपि तद्विशिष्टाग्नेरिव आहवनीयादि- पदार्थानतिरेकात् आधातुमात्रार्थतैव, न तु आहवनी याद्यथैतापि इति नेयं कथंकगतत्वपक्षे दूषणभङ्गी युका ; एवं तु तत्र दूषणं वक्तव्यम्— तथा विवक्षायां चित्रादिवा क्येषु आत्मनेपदं न स्यात् , चित्रेष्टयादिफलानां पशुहिरण्या-
पृष्ठम्:वादनक्षत्रमाला.djvu/३०६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति