वादनक्षत्रमाला । २९७ दीनां क्रयप्रतिग्रहादिभिः यजमानेन लभ्यानां विक्रयदना दिभिः तेन अन्यसात्कर्तुं शक्यानां यजमानार्थत्वसमयात्प्राक् पश्चाच्च अन्यार्थत्वस्यापि सत्त्वेन तस्मिन्नपि समये जन्मप्र भृति पितृधनस्वामिभूतपुत्राद्यर्थत्वस्यापि सत्त्वेन तेषां कर्तुः कगतत्वाभावात् ; पचिधातो: स्वामिविषयेऽपि आत्मनेपदं न स्यात् , पचिक्रियाफलस्य अन्नस्य अन्ततो भिक्षुमक्षिकाद्य- कर्तृसाधारणस्यावर्जनीयत्वात् इति ; यत्तु ‘आदधीत’ इत्यत्र स्वरितादिसूत्राप्रवृत्तिप्रसङ्गदूषणपरिहारार्थं कथंकगतत्वम् इ त्यनेन कर्छतिरिक्तचेतनगतत्वानिषेधो विवक्षित इत्युक्तम् , तद- पि अज्ञानविलसितम् , आधानजन्यसंस्काराणाम् आहवनी याद्यभिमानिदेवतागतवत् ; अन्यथा आधानकाले आहित स्य आहवनीयादेरचेतनस्याग्नेः आधानप्रयोगसमाप्यनन्तरं परित्यागेन तद्रतस्य संस्कारस्य तन्नाशान्नाशोऽवश्यंभावीति आहवनीयदाद्यनुवृत्यभावप्रसङ्गात् ; अजस्रपक्षेऽपे आहवनं यादिशब्दानामनेकार्थत्वापत्तेः ; पशौ प्रणयनविशेषसंस्कृतस्या- हवनीयस्य औत्तरवेदिकप्रणयननन्तरं गार्हपत्यतापत्या तस्या- हवनीयशब्दप्रवृत्तिनिमित्तत्वयोगाच; तस्मात् आहवनीया द्यभिमानिदेवता एव तत्तदायतनविशेषनिहितेषु संभारेषु मथि- तानिनिधानरूपेण आधानेन संस्क्रियन्ते ; देवताश्च संस्कृता
पृष्ठम्:वादनक्षत्रमाला.djvu/३०७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति