पृष्ठम्:वादनक्षत्रमाला.djvu/३२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाल । ३ ११ अत: न तन्मात्र प्रमाणम् , न च अवहननस्य अपेक्षाम त्रात् यवसाधरण्यम् ; किंतु द्वितीयाधृत्यवगतम् त्रीहीणाम वहननसाध्यत्वं प्राक्सिद्धीहित्वाकारेण न संभवतीति त साध्यतावच्छेदकत्वेन अपूर्वीयत्वं लक्षणीयम्; किंच अव इननवाक्ये त्रीहिपदस्य लौकिकापूर्वीयसाधारण्येन त्रीहि- मात्रपरत्व भूतभाविविनियोगरहितेषु चैौकिकत्रीहिषु अव हननस्यार्थकर्मत्वम् , अपूर्वायत्रीहेषु विनियुक्तसंस्कारतया गुणकर्मत्वमिति विधिवैरूप्यापत्ति: ; लौकिकत्रीहिमात्रपरत्वे द्वितीयाधृत्यवगतद्रव्यप्राधान्यभङ्गापत्तिरिति, तत्परिहारार्थ- त्वेनापि अपूर्वायत्व लक्षणीयम् , तत्र त्रीहित्वस्यापि विवक्षायां विशिष्टानुवाददोषः स्यादिति प्रवृत्तिनिमित्तैक्यात् यवसाधारण्यम् ; यज्ञादीनां शमादीनां च ‘विविदिषन्ति यज्ञन' इत्यादौ तृतीयाश्रुत्या ‘ समाहितो भूत्वा आरम येवात्मन पश्येत्’ इत्यत्र क्त्वऽत्या च सकलविद्यासधा- रण्यम् ; तत्र हि ‘विविदिषन्ति ’ इति पश्येत्’ इति च विद्यामात्रमुपात्तम् ; अर्चिरादिगतीनां सकलविद्यासधा रण्यमपि ‘तद्य इत्थं वदुः ये चमेऽरण्यं श्रद्धा तप इत्यु पासत’ इत्यादिवाक्येन ; श्रुतिवाक्ये च प्रकरणात् बला यसं ; तस्मात् अपेक्षामात्रेण न कापि jवनयगः ;