पृष्ठम्:वादनक्षत्रमाला.djvu/३५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ ४ ६ पूर्वोत्तरमीमांसा हरतीति कल्पनेन उपपद्यते ; अतो नात्र युक्तिविरोधः क श्चिदस्ति ; ‘स्वे शरीरे’ इति श्रुतिः शरीरान्तरस्यापि स्वश= रीरत्वादुपपद्यते ; तत्र शयितशरीराभिमानमात्रं भ्रमोऽस्तु; न हि वप्रसत्यत्ववादेनः स्वप्ने भ्रम एव नास्ति, स्वप्नेऽपि शुक्तिरजतादिभ्रमाङ्गीकारात् ; “न तत्र रथा:’ इत्यादिश्रुति: स्वप्नरथादिसृष्टेः प्राक् तत्र देश रथाद्यभावविषया ; अत एव “ अथ रथन्’ इत्यादों अथशब्दः; तस्मात् न मद्धे तुरसिद्धःत्वद्धेतुरेवसिद्ध इति ।। अथ अष्टम कक्ष्य तावल्लोकदृष्टविरुद्धं किमवलम्ब्य कल्प्यते ; बहिष्कुलाय- श्रुतिं रथादिसृष्टिञ्चतिं च इति चेत्, न, बहिष्कुलायश्रुतेः स्वे शरीरे’ इति श्रुत्यनुसारेण भाक्ततया व्याख्यात व्य त्वात् , शरीरान्तरं परिगृह्नाति चेत् , तस्यापि पूर्वशरीरवत् स्वीयत्वमनुभवसिद्धमिति तस्यावक्तव्यतया, तस्याः श्रुतेः विकृतशरीरान्तरपरिग्रहदर्शनेऽपि बहिः संचरदर्शनेऽपि श येत पूर्वशरीर एव परिवर्तते, न शरीरान्तरं परिगृह्णाति, नापि बहिः संचरतोiते तस्य सर्वस्य मेियत्वप्रदशननेव साफल्यस्य उपपादनीयत्वात ; रथादिसृष्टिश्रुतेः “न तत्र रथाः’ इत्युपक्रमानुराधन भाक्ततया व्याख्यातव्यत्वाच्च ; तत्र